सञ्जय उवाच 001
वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते 001a
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः 001c
अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् 002a
अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया 002c
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा 003a
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् 003c
तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः 004a
यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे 004c
कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् 005a
द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् 005c
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः 006a
अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि 006c
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् 007a
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् 007c
भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् 008a
स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् 008c
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् 009a
शकुनिः सौबलो राजन्वारयामास सत्वरः 009c
शिखण्डिनमथायान्तं रथेन रथिनां वरम् 010a
कृपो शारद्वतो राजन्वारयामास संयुगे 010c
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः 011a
दुःशासनो महाराज यत्तो यत्तमवारयत् 011c
भैमसेनिमथायान्तं मायाशतविशारदम् 012a
अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् 012c
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् 013a
वारयामास समरे द्रोणप्रेप्सुं महारथम् 013c
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति 014a
मद्रराजः सुसङ्क्रुद्धो वारयामास भारत 014c
शतानीकमथायान्तं नाकुलिं रभसं रणे 015a
चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया 015c
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् 016a
अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् 016c
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे 017a
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् 017c
तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् 018a
तावका रथिनो राजन्वारयामासुरोजसा 018c
गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे 019a
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः 019c
निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् 020a
समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः 020c
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः 021a
समागच्छन्महाराज विनदन्तः पृथक्पृथक् 021c
नरास्तु बहवस्तत्र समाजग्मुः परस्परम् 022a
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च सङ्घशः 022c
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् 023a
वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् 023c
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः 024a
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् 024c
कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष 025a
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः 025c
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः 026a
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् 026c
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष 027a
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः 027c
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च 028a
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् 028c
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् 029a
प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः 029c
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् 030a
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः 030c
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् 031a
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः 031c
सा हेमचित्रा महती पाण्डवेन प्रवेरिता 032a
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् 032c
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः 033a
हार्दिक्यं छादयामास शरैः सन्नतपर्वभिः 033c
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी 034a
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् 034c
ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे 035a
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे 035c
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् 036a
प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः 036c
तमापतन्तं सहसा धर्मराजभुजच्युतम् 037a
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव 037c
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् 038a
कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत् 038c
हार्दिक्यशरसञ्छिन्नं कवचं तन्महात्मनः 039a
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् 039c
स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः 040a
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः 040c
कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् 041a
पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः 041c