सञ्जय उवाच 001
प्रकाशिते तथा लोके रजसा च तमोवृते 001a
समाजग्मुरथो वीराः परस्परवधैषिणः 001c
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः 002a
परस्परमुदैक्षन्त परस्परकृतागसः 002c
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः 003a
विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत 003c
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत 004a
दह्यमानेव लोकानामभावे वै वसुन्धरा 004c
प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः 005a
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः 005c
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् 006a
नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः 006c
रथा रथवरैरेव समाजग्मुर्मुदान्विताः 007a
तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् 007c
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् 008a
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् 008c
धृतराष्ट्र उवाच 009
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् 009a
अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा 009c
किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने 010a
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत 010c
के चैनं समरे वीरं प्रत्युद्ययुररिन्दमम् 011a
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः 011c
के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः 012a
के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे 012c
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः 013a
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् 013c
ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् 014a
धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् 014c
अव्यग्रानेव हि परान्कथयस्यपराजितान् 015a
हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि 015c
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् 015e
सञ्जय उवाच 016
द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् 016a
दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत 016c
विकर्णं चित्रसेनं च महाबाहुं च कौरवम् 017a
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः 017c
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः 018a
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा 018c
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः 019a
तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः 019c
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः 020a
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे 020c
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी 021a
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् 021c
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः 022a
द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् 022c
पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् 023a
यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः 023c
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् 024a
स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् 024c
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे 025a
धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् 025c
तथार्जुनं रणे कर्णो विजेष्यति महारथः 026a
भीमसेनमहं चापि युद्धे जेष्यामि दंशितः 026c
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति 027a
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथाः 027c
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव 028a
व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे 028c
ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ 029a
उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः 029c
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः 030a
नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् 030c
द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान् 031a
छादयामासतुः सङ्ख्ये शरैः सन्नतपर्वभिः 031c
पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष 032a
आसीन्निष्टानको घोरो निघ्नतामितरेतरम् 032c
नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् 033a
युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् 033c