सञ्जय उवाच 001
वर्तमाने तथा युद्धे घोररूपे भयावहे 001a
तमसा संवृते लोके रजसा च महीपते 001c
नापश्यन्त रणे योधाः परस्परमवस्थिताः 001e
अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृते महत् 002a
नरनागाश्वमथनं परमं लोमहर्षणम् 002c
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः 003a
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम 003c
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः 004a
तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः 004c
ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः 005a
अहन्यन्त महाराज धावमानाश्च संयुगे 005c
महारथसहस्राणि जघ्नुरन्योन्यमाहवे 006a
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते 006c
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत 007a
व्यमुह्यन्त रणे तत्र तमसा संवृते सति 007c
धृतराष्ट्र उवाच 008
तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् 008a
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा 008c
कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः 009a
बभूव लोके तमसा तथा सञ्जय संवृते 009c
सञ्जय उवाच 010
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै 010a
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् 010c
द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिः पार्श्वतः सौबलश्च 011a
स्वयं तु सर्वाणि बलानि राजन्राजाभ्ययाद्गोपयन्वै निशायाम् 011c
उवाच सर्वांश्च पदातिसङ्घान्दुर्योधनः पार्थिव सान्त्वपूर्वम् 012a
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् 012c
ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् 013a
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् 013c
महाधनैराभरणैश्च दिव्यैः शस्त्रैः प्रदीप्तैरभिसम्पतद्भिः 014a
क्षणेन सर्वे विहिताः प्रदीपा व्यदीपयंश्च ध्वजिनीं तदाशु 014c
सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः 015a
प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः 015c
प्रकाशितायां तु तथा ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्समन्तात् 016a
रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली 016c
जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरावरेषु 017a
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र ततो बभूवुः 017c
गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः 018a
प्रतिप्रभा रश्मिभिराजमीढ पुनः पुनः सञ्जनयन्ति दीप्ताः 018c
छत्राणि बालव्यजनानुषङ्गा दीप्ता महोल्काश्च तथैव राजन् 019a
व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः 019c
शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् 020a
प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव 020c
पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुद्रुहाणि 021a
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे 021c
प्रकम्पितानामभिघातवेगैरभिघ्नतां चापततां जवेन 022a
वक्त्राण्यशोभन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि 022c
महावने दाव इव प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् 023a
तथा तवासीद्ध्वजिनी प्रदीप्ता महाभये भारत भीमरूपा 023c
तत्सम्प्रदीप्तं बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव 024a
सर्वेषु सैन्येषु पदातिसङ्घानचोदयंस्तेऽथ चक्रुः प्रदीपान् 024c
गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव दश प्रदीपाः 025a
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये 025c
सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च 026a
मध्ये तथान्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः 026c
सर्वेषु सैन्येषु पदातिसङ्घा व्यामिश्रिता हस्तिरथाश्ववृन्दैः 027a
मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् 027c
तेन प्रदीप्तेन तथा प्रदीप्तं बलं तदासीद्बलवद्बलेन 028a
भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभितप्तः 028c
तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः 029a
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् 029c
तेन प्रकाशेन दिवङ्गमेन सम्बोधिता देवगणाश्च राजन् 030a
गन्धर्वयक्षासुरसिद्धसङ्घाः समागमन्नप्सरसश्च सर्वाः 030c
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च 031a
हतैश्च वीरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव 031c
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधाहतविद्रुताश्वम् 032a
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव 032c
तच्छक्तिसङ्घाकुलचण्डवातं महारथाभ्रं रथवाजिघोषम् 033a
शस्त्रौघवर्षं रुधिराम्बुधारं निशि प्रवृत्तं नरदेवयुद्धम् 033c
तस्मिन्महाग्निप्रतिमो महात्मा सन्तापयन्पाण्डवान्विप्रमुख्यः 034a
गभस्तिभिर्मध्यगतो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र 034c