सञ्जय उवाच 001
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः 001a
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह 001c
न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् 002a
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम 002c
ततः सम्प्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् 003a
तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे 003c
तेऽवहन्युयुधानं तु मनोमारुतरंहसः 004a
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् 004c
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे 005a
सोमदत्तो महाबाहुरसम्भ्रान्तोऽभ्यवर्तत 005c
विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् 006a
छादयामास शैनेयं जलदो भास्करं यथा 006c
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् 007a
छादयामास बाणौघैः समन्ताद्भरतर्षभ 007c
सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् 008a
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः 008c
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ 009a
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ 009c
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ 010a
परस्परमवेक्षेतां दहन्ताविव लोचनैः 010c
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ 011a
घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ 011c
शरसम्भिन्नगात्रौ तौ सर्वतः शकलीकृतौ 012a
श्वाविधाविव राजेन्द्र व्यदृश्येतां शरक्षतौ 012c
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् 013a
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती 013c
सम्प्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ 014a
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ 014c
ततो युधि महाराज सोमदत्तो महारथः 015a
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः 015c
अथैनं पञ्चविंशत्या सायकानां समार्पयत् 016a
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः 016c
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् 017a
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत 017c
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् 018a
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव 018c
सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् 019a
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् 019c
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः 020a
धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह 020c
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् 021a
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् 021c
अथान्यद्धनुरादाय सोमदत्तो महारथः 022a
सात्यकिं छादयामास शरवृष्ट्या महाबलः 022c
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः 023a
सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् 023c
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् 024a
सोमदत्तोऽप्यसम्भ्रान्तः शैनेयमवधीच्छरैः 024c
ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् 025a
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि 025c
तमापतन्तं वेगेन परिघं घोरदर्शनम् 026a
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः 026c
स पपात द्विधा छिन्न आयसः परिघो महान् 027a
महीधरस्येव महच्छिखरं वज्रदारितम् 027c
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे 028a
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः 028c
चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् 029a
समीपं प्रेषयामास प्रेतराजस्य भारत 029c
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा 030a
जहार रथशार्दूलः प्रहसञ्शिनिपुङ्गवः 030c
ततः शरं महाघोरं ज्वलन्तमिव पावकम् 031a
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् 031c
स विमुक्तो बलवता शैनेयेन शरोत्तमः 032a
घोरस्तस्योरसि विभो निपपाताशु भारत 032c
सोऽतिविद्धो बलवता सात्वतेन महारथः 033a
सोमदत्तो महाबाहुर्निपपात ममार च 033c
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः 034a
महता शरवर्षेण युयुधानमुपाद्रवन् 034c
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः 035a
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत् 035c
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् 036a
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः 036c
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् 037a
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः 037c
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः 038a
सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् 038c
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च 038e
स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः 039a
अन्यदादत्त वेगेन कार्मुकं समरे दृढम् 039c
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः 040a
साश्वसूतध्वजरथं तदद्भुतमिवाभवत् 040c
ततो मुहूर्तं व्यथितः शरघातप्रपीडितः 041a
निषसाद रथोपस्थे द्रोणो भरतसत्तम 041c
प्रतिलभ्य ततः सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः 042a
क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् 042c
असम्भ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् 043a
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत 043c
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् 044a
युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु 044c
उपारमस्व युद्धाय द्रोणाद्भरतसत्तम 045a
गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे 045c
नानुरूपमहं मन्ये युद्धमस्य त्वया सह 046a
योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति 046c
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः 047a
भीमश्च रथशार्दूलो युध्यते कौरवैः सह 047c
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः 048a
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् 048c
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः 049a
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः 049c
रथघोषेण महता नादयन्वसुधातलम् 050a
पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश 050c
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः 051a
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे 051c