सञ्जय उवाच 001
ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः 001a
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् 001c
ततो दुर्योधनो राजा भारद्वाजेन संवृतः 002a
अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत 002c
घोररूपं महाराज भीरूणां भयवर्धनम् 002e
अम्बष्ठान्मालवान्वङ्गाञ्शिबींस्त्रैगर्तकानपि 003a
प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः 003c
अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान् 004a
निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् 004c
यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि 005a
प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः 005c
प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः 006a
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः 006c
निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः 007a
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः 007c
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ 008a
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये 008c
हत प्रहरताभीता विध्यत व्यवकृन्तत 009a
इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति 009c
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे 010a
व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः 010c
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् 011a
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः 011c
ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम् 012a
महता रथवंशेन परिगृह्य बलं तव 012c
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः 013a
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् 013c
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः 014a
अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः 014c
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः 015a
महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति 015c
ततः सा भारती सेना वध्यमाना किरीटिना 016a
तमसा निद्रया चैव पुनरेव व्यदीर्यत 016c
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च 017a
न शक्यन्ते महाराज योधा वारयितुं तदा 017c
सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः 018a
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी 018c
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः 019a
प्राद्रवन्त महाराज भयाविष्टाः समन्ततः 019c