सञ्जय उवाच 001
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः 001a
प्रत्युवाच महाबाहो यथा वदसि कौरव 001c
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे 002a
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह 002c
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् 002e
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च 003a
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम 003c
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह 004a
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे 004c
युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम् 005a
तेजस्तु तेज आसाद्य प्रशमं याति भारत 005c
अशक्या तरसा जेतुं पाण्डवानामनीकिनी 006a
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते 006c
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः 007a
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत 007c
त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव 008a
सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे 008c
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः 009a
एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन 009c
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् 010a
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा 010c
पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिन्दम 010e
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा 011a
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः 011c
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् 012a
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः 012c
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः 013a
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह 013c
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत 014a
न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः 014c
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव 015a
अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः 015c
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः 015e
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः 016a
प्रहरध्वमितः सर्वे मम गात्रे महारथाः 016c
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् 016e
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् 017a
द्रौणिं प्रति महाराज जलं जलधरा इव 017c
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् 018a
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो 018c
ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा 019a
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश 019c
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् 020a
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि 020c
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् 021a
वृतः शतेन शूराणां रथानामनिवर्तिनाम् 021c
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः 022a
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् 022c
आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव 023a
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे 023c
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः 023e
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् 024a
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ 024c
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः 025a
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः 025c
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् 025e
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः 026a
मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत 026c
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय 027a
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् 027c
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा 028a
छादयामास बाणौघैः समन्ताल्लघुहस्तवत् 028c
स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः 029a
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा 029c
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च 030a
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते 030c
ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे 030e
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते 031a
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे 031c
नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् 031e
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च 032a
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे 032c
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः 033a
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम 033c
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः 034a
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 034c
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत 035a
छादयामास च शरैर्निःश्वसन्पन्नगो यथा 035c
स छाद्यमानः समरे द्रौणिना राजसत्तम 036a
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः 036c
नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः 037a
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह 037c
तौ पुनः सन्न्यवर्तेतां प्राणद्यूतपरे रणे 038a
निवारयन्तौ बाणौघैः परस्परममर्षिणौ 038c
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः 038e
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् 039a
दृष्ट्वा सम्पूजयामासुः सिद्धचारणवातिकाः 039c
शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा 040a
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः 040c
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ 041a
परस्परवधे यत्तौ परस्परजयैषिणौ 041c
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च 042a
सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः 042c
तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव 043a
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत 043c
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष 044a
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः 044c
तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने 045a
मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् 045c
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः 046a
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी 046c
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे 046e
पाञ्चालांश्चैव तान्सर्वान्बाणैः सन्नतपर्वभिः 047a
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः 047c
ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ 048a
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे 048c
शतेन च शतं हत्वा पाञ्चालानां महारथः 049a
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् 049c
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः 050a
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः 050c
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः 051a
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः 051c
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः 052a
ननाद सुमहानादं तपान्ते जलदो यथा 052c
स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत 053a
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः 053c
सम्पूज्यमानो युधि कौरवेयैर्विजित्य सङ्ख्येऽरिगणान्सहस्रशः 054a
व्यरोचत द्रोणसुतः प्रतापवान्यथा सुरेन्द्रोऽरिगणान्निहत्य 054c