सञ्जय उवाच 001
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् 001a
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् 001c
अश्वत्थामोवाच 002
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम 002a
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते 002c
सञ्जय उवाच 003
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् 003a
न्यवारयन्महाराज कृपश्च द्विपदां वरः 003c
कर्ण उवाच 004
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः 004a
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम 004c
अश्वत्थामोवाच 005
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते 005a
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति 005c
दुर्योधन उवाच 006
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद 006a
कोपः खलु न कर्तव्यः सूतपुत्रे कथञ्चन 006c
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले 007a
महत्कार्यं समायत्तं प्रसीद द्विजसत्तम 007c
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः 008a
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः 008c
सञ्जय उवाच 009
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् 009a
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव 009c
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः 009e
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः 010a
संरब्धस्य महाराज सिंहनादविनादितम् 010c
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः 011a
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् 011c
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे 012a
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम 012c
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् 013a
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः 013c
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता 014a
अत्यन्तवैरी पार्थानां सततं पापपूरुषः 014c
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः 015a
हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् 015c
महता शरवर्षेण छादयन्तो महारथाः 016a
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः 016c
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् 017a
न विव्यथे सूतपुत्रो न च त्रासमगच्छत 017c
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् 018a
पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः 018c
सायकौघेन बलवान्क्षिप्रकारी महाबलः 019a
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ 019c
ततस्तु शरवर्षेण पार्थिवास्तमवारयन् 020a
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः 020c
अयोधयन्त राधेयं शक्रं दैत्यगणा इव 020e
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् 021a
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो 021c
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् 022a
यथा देवासुरे युद्धे शक्रस्य सह दानवैः 022c
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् 023a
यदेनं समरे यत्ता नाप्नुवन्त परे युधि 023c
निवार्य च शरौघांस्तान्पार्थिवानां महारथः 024a
युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च 024c
आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् 024e
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः 025a
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव 025c
हयानां वध्यमानानां गजानां रथिनां तथा 026a
तत्र तत्राभ्यवेक्षामः सङ्घान्कर्णेन पातितान् 026c
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः 027a
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् 027c
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः 028a
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् 028c
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् 029a
अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह 029c
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः 030a
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् 030c
कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव 030e
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता 031a
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया 031c
तद्यथा पश्यमानानां सूतपुत्रं महारथम् 032a
न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयताम् 032c
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः 033a
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया 033c
आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव 034a
प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् 034c
धृतराष्ट्र उवाच 035
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् 035a
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् 035c
स ह्यस्पर्धत पार्थेन नित्यमेव महारथः 036a
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे 036c
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् 037a
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत 037c
सञ्जय उवाच 038
आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा 038a
असम्भ्रान्ततरः कर्णः पर्त्युदीयाद्धनञ्जयम् 038c
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः 039a
वारयामास तेजस्वी पाण्डवः शत्रुतापनः 039c
तं कर्णः शरजालेन छादयामास मारिष 040a
विव्याध च सुसङ्क्रुद्धः शरैस्त्रिभिरजिह्मगैः 040c
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः 041a
तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् 041c
प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः 042a
विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् 042c
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव 043a
तस्य विद्धस्य वेगेन कराच्चापं पपात ह 043c
पुनरादाय तच्चापं निमेषार्धान्महाबलः 044a
छादयामास बाणौघैः फल्गुनं कृतहस्तवत् 044c
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत 045a
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः 045c
तौ परस्परमासाद्य शरवर्षेण पार्थिव 046a
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ 046c
तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे 047a
क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव 047c
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् 048a
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः 048c
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् 049a
सारथेश्च शिरः कायादहरच्छत्रुतापनः 049c
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् 050a
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः 050c
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः 051a
आरुरोह रथं तूर्णं कृपस्य शरपीडितः 051c
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ 052a
धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश 052c
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप 053a
निवर्तयामास तदा वाक्यं चेदमुवाच ह 053c
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः 054a
एष पार्थवधायाहं स्वयं गच्छामि संयुगे 054c
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् 054e
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना 055a
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये 055c
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः 056a
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः 056c
अद्य बाणमयं वर्षं सृजतो मम धन्विनः 057a
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः 057c
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः 058a
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् 058c
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति 059a
यथा वेलां समासाद्य सागरो मकरालयः 059c
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः 060a
फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः 060c
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा 061a
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह 061c
एष राजा महाबाहुरमर्षी क्रोधमूर्छितः 062a
पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति 062c
यावन्नः पश्यमानानां प्राणान्पार्थेन सङ्गतः 063a
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् 063c
यावत्फल्गुनबाणानां गोचरं नाधिगच्छति 064a
कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् 064c
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः 065a
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् 065c
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद 066a
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् 066c
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना 067a
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः 067c
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः 068a
दुर्योधनमिदं वाक्यं त्वरितं समभाषत 068c
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि 069a
मामनादृत्य कौरव्य तव नित्यं हितैषिणम् 069c
न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति 070a
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन 070c
दुर्योधन उवाच 071
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति 071a
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम 071c
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि 072a
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् 072c
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः 073a
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः 073c
को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि 074a
शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः 074c
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् 075a
तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ 075c
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् 076a
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः 076c
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः 077a
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् 077c
तान्वारय महाबाहो केकयांश्च नरोत्तम 078a
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना 078c
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष 079a
त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति 079c
करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत 080a
एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा 080c
न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः 081a
किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम 081c