सञ्जय उवाच 001
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् 001a
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् 001c
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल 002a
त्रायस्व समरे कर्ण सर्वान्योधान्महाबल 002c
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः 003a
वृतान्समन्तात्सङ्क्रुद्धैर्निःश्वसद्भिरिवोरगैः 003c
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः 004a
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः 004c
कर्ण उवाच 005
परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः 005a
तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् 005c
सत्यं ते प्रतिजानामि समाश्वसिहि भारत 006a
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् 006c
जयं ते प्रतिजानामि वासवस्येव पावकिः 007a
प्रियं तव मया कार्यमिति जीवामि पार्थिव 007c
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः 008a
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् 008c
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद 009a
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः 009c
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् 010a
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् 010c
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् 011a
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् 011c
सञ्जय उवाच 012
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् 012a
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः 012c
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः 013a
त्वया नाथेन राधेय वचसा यदि सिध्यति 013c
बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः 014a
न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा 014c
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि 015a
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन 015c
ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे 016a
तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः 016c
विराटनगरे चापि समेताः सर्वकौरवाः 017a
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः 017c
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे 018a
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् 018c
अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज 019a
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् 019c
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् 020a
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते 020c
तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि 021a
पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् 021c
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि 022a
पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् 022c
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः 023a
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः 023c
एवं परुषितस्तेन तदा शारद्वतेन सः 024a
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् 024c
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः 025a
फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव 025c
दोषमत्र न पश्यामि शूराणां रणमूर्धनि 026a
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे 026c
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति 027a
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते 027c
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् 028a
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति 028c
वृथा शूरा न गर्जन्ति सजला इव तोयदाः 029a
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः 029c
सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ 030a
उत्सहे तरसा जेतुं ततो गर्जामि गौतम 030c
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः 031a
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् 031c
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् 031e
कृप उवाच 032
मनोरथप्रलापो मे न ग्राह्यस्तव सूतज 032a
यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् 032c
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ 033a
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् 033c
दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ 033e
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः 034a
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः 034c
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः 034e
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः 035a
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः 035c
सम्बन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः 036a
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः 036c
चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः 037a
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः 037c
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् 038a
येषामर्थाय संयत्तो मत्स्यराजः सहानुगः 038c
शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः 039a
बलानीको जयानीको जयाश्वो रथवाहनः 039c
चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः 040a
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः 040c
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः 040e
कामं खलु जगत्सर्वं सदेवासुरमानवम् 041a
सयक्षराक्षसगणं सभूतभुजगद्विपम् 041c
निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ 041e
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा 042a
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः 042c
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् 042e
महानपनयस्त्वेष तव नित्यं हि सूतज 043a
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह 043c
सञ्जय उवाच 044
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ 044a
अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् 044c
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः 045a
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै 045c
अजय्याश्च रणे पार्था देवैरपि सवासवैः 046a
सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः 046c
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया 046e
ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज 047a
एतया निहनिष्यामि सव्यसाचिनमाहवे 047c
हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः 048a
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन 048c
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा 049a
अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम 049c
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः 050a
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम 050c
त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे 051a
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे 051c
यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज 052a
ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते 052c
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे 053a
भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते 053c
अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज 053e
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः 054a
दुःशासनो वृषसेनो मद्रराजस्त्वमेव च 054c
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः 054e
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः 055a
जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः 055c
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः 056a
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि 056c
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः 057a
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः 057c
दैवायत्तमहं मन्ये जयं सुबलिनामपि 058a
यत्र भीष्मो महाबाहुः शेते शरशताचितः 058c
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः 059a
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः 059c
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् 060a
एते चान्ये च राजानो देवैरपि सुदुर्जयाः 060c
निहताः समरे शूराः पाण्डवैर्बलवत्तराः 061a
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम 061c
यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज 062a
तेषामपि हताः शूराः शतशोऽथ सहस्रशः 062c
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह 063a
प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन 063c
यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम 064a
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे 064c
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः 064e