सञ्जय उवाच 001
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा 001a
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः 001c
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः 002a
युयुधानश्च संयत्ता युद्धायैव मनो दधुः 002c
सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे 003a
महता शरवर्षेण छादयामास सर्वतः 003c
ततः समभवद्युद्धमतीव भयवर्धनम् 004a
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् 004c
दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् 005a
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत 005c
सात्वतस्त्वभिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम् 006a
वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् 006c
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः 007a
शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः 007c
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् 008a
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि 008c
सात्यकिश्चाग्निसङ्काशं मुमोच शरमुत्तमम् 009a
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि 009c
युगपत्पेततुरथ घोरौ परिघमार्गणौ 010a
शरीरे सोमदत्तस्य स पपात महारथः 010c
व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् 011a
विसृजञ्शरवर्षाणि कालवर्षीव तोयदः 011c
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः 012a
पीडयन्वै महात्मानं विव्याध रणमूर्धनि 012c
प्रातिपीयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि 013a
निचखान महाबाहुः पुरन्दर इवाशनिम् 013c
स तयाभिहतो भीमश्चकम्पे च मुमोह च 014a
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह 014c
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् 015a
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् 015c
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे 016a
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः 016c
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् 017a
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् 017c
ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः 018a
जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली 018c
ततः सप्त रथान्वीरः स्यालानां तव भारत 019a
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् 019c
अमर्षयन्तो निहतं शतचन्द्रं महारथम् 020a
शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः 020c
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् 020e
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः 021a
जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् 021c
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः 021e
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् 022a
मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ 022c
अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि 023a
प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः 023c
अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् 024a
निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् 024c
यौधेयारट्टराजन्यमद्रकाणां गणान्युधि 025a
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः 025c
हताहरत गृह्णीत विध्यत व्यवकृन्तत 026a
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति 026c
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् 027a
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् 027c
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् 028a
विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् 028c
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे 029a
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च 029c
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् 029e
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः 030a
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् 030c
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः 031a
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत 031c
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः 031e
पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः 032a
प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमन्यत्स जघान तेऽस्त्रे 032c
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः 033a
युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् 033c
ततो नाज्ञासिषं किञ्चिद्घोरेण तमसावृते 034a
सर्वभूतानि च परं त्रासं जग्मुर्महीपते 034c
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः 035a
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् 035c
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ 036a
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ 036c
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् 037a
व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत 037c
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् 038a
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः 038c
ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम् 039a
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव 039c
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः 040a
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् 040c
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः 041a
अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः 041c
ततः सा भारती सेना वध्यमाना किरीटिना 042a
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च 042c
नाशक्यन्त महाराज योधा वारयितुं तदा 042e