सञ्जय उवाच 001
प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः 001a
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् 001c
क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः 002a
तं त्वं सात्वत सन्त्यज्य दस्युधर्मे कथं रतः 002c
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते 003a
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे 003c
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ 004a
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत 004c
कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे 005a
नृशंसं पतनीयं च तादृशं कृतवानसि 005c
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च 006a
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् 006c
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् 007a
न हन्यां निरये घोरे पतेयं वृष्णिपांसन 007c
एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः 008a
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च 008c
ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः 009a
सात्वतो भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् 009c
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः 010a
शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः 010c
त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् 011a
तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः 011c
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा 012a
अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे 012c
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा 013a
सकर्णसौबलः सङ्ख्ये विनाशं समुपेष्यसि 013c
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह 014a
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः 014c
अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि 014e
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ 015a
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ 015c
ततो गजसहस्रेण रथानामयुतेन च 016a
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः 016c
शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः 017a
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः 017c
स्यालस्तव महाबाहुर्वज्रसंहननो युवा 017e
साग्रं शतसहस्रं तु हयानां तस्य धीमतः 018a
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत 018c
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् 019a
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः 019c
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् 019e
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः 020a
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् 020c
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः 021a
सात्यकिर्दशभिश्चैनमवधीत्कुरुपुङ्गवम् 021c
सोऽतिविद्धो बलवता समरे दृढधन्वना 022a
रथोपस्थं समासाद्य मुमोह गतचेतनः 022c
तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः 023a
अपोवाह रणाद्वीरं सोमदत्तं महारथम् 023c
तं विसञ्ज्ञं समालोक्य युयुधानशरार्दितम् 024a
द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि 024c
तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति 025a
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् 025c
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् 026a
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः 026c
विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता 027a
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता 027c
लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् 028a
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् 028c
शूलमुद्गरधारिण्या शैलपादपहस्तया 029a
रक्षसां घोररूपाणामक्षौहिण्या समावृतः 029c
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः 030a
युगान्तकालसमये दण्डहस्तमिवान्तकम् 030c
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी 031a
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी 031c
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः 032a
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् 032c
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः 033a
सन्ध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ 033c
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः 034a
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा 034c
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः 035a
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः 035c
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे 036a
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् 036c
निहतायां तु मायायाममर्षी स घटोत्कचः 037a
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् 037c
भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः 038a
ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् 038c
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः 038e
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् 039a
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः 039c
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु 040a
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् 040c
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् 041a
अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया 041c
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः 042a
अभाग्यस्येव सङ्कल्पस्तन्मोघं न्यपतद्भुवि 042c
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् 043a
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् 043c
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः 044a
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् 044c
पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा 045a
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः 045c
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः 046a
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः 046c
द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् 047a
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् 047c
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् 048a
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् 048c
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना 049a
भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् 049c
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् 050a
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् 050c
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि 051a
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः 051c
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते 052a
महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः 052c
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् 053a
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् 053c
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् 054a
द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः 054c
प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् 055a
दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् 055c
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि 056a
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा 056c
अश्वत्थामोवाच 057
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम 057a
न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् 057c
कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि 058a
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत 058c
सञ्जय उवाच 059
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः 059a
अश्वत्थामानमायस्तो भैमसेनिरभाषत 059c
किमहं कातरो द्रौणे पृथग्जन इवाहवे 060a
भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले 060c
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् 061a
रक्षसामधिराजोऽहं दशग्रीवसमो बले 061c
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि 062a
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे 062c
इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः 063a
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी 063c
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः 064a
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः 064c
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् 065a
ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् 065c
अथास्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समाबभौ 066a
विभावरीमुखे व्योम खद्योतैरिव चित्रितम् 066c
निशाम्य निहतां मायां द्रौणिना रणमानिना 067a
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः 067c
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः 068a
शूलप्रासासिमुसलजलप्रस्रवणो महान् 068c
तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् 069a
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न चुक्षुभे 069c
ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् 070a
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत 070c
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि 071a
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे 071c
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः 072a
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् 072c
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः 073a
शतं रथसहस्राणां जघान द्विपदां वरः 073c
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् 074a
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् 074c
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः 075a
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि 075c
विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह 076a
पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः 076c
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः 077a
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः 077c
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः 078a
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् 078c
तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया 079a
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः 079c
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः 080a
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् 080c
दुर्योधन उवाच 081
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः 081a
अस्मासु च परा भक्तिस्तव गौतमिनन्दन 081c
सञ्जय उवाच 082
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् 082a
वृतः शतसहस्रेण रथानां रणशोभिनाम् 082c
षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनञ्जयम् 083a
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च 083c
उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः 084a
दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः 084c
पुरञ्जयो दृढरथः पताकी हेमपङ्कजः 085a
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः 085c
कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः 086a
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् 086c
जहि भीमं यमौ चोभौ धर्मराजं च मातुल 087a
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता 087c
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् 088a
जहि मातुल कौन्तेयानसुरानिव पावकिः 088c
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः 089a
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् 089c
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे 090a
विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव 090c
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् 091a
जघानोरसि सङ्क्रुद्धो विषाग्निप्रतिमैर्दृढैः 091c
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः 092a
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः 092c
भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् 093a
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः 093c
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् 094a
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः 094c
ततः शारद्वतीपुत्रः प्रेषयामास भारत 095a
सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति 095c
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् 096a
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् 096c
विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः 097a
ददाह भगवान्वह्निर्भूतानीव युगक्षये 097c
स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् 098a
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः 098c
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः 099a
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् 099c
तेषु राजसहस्रेषु पाण्डवेयेषु भारत 100a
नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे 100c
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् 100e
स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः 101a
तलं तलेन संहत्य सन्दश्य दशनच्छदम् 101c
स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह 101e
स ययौ घोररूपेण तेन जैत्रपताकिना 102a
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः 102c
स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः 103a
अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् 103c
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः 104a
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे 104c
साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा 105a
विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा 105c
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् 106a
यदवप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् 106c
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप 107a
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि 107c
धृष्टद्युम्नोऽप्यसम्भ्रान्तो मुमोचाशीविषोपमान् 108a
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि 108c
ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः 109a
तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् 109c
अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः 110a
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ 110c
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः 111a
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् 111c
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् 112a
अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् 112c
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् 113a
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत 113c
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् 114a
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् 114c
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च 115a
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च 115c
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः 116a
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः 116c
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः 117a
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः 117c
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ 118a
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये 118c
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् 119a
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् 119c
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् 120a
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् 120c
शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् 121a
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् 121c
केशशैवलकल्माषां भीरूणां कश्मलावहाम् 122a
नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् 122c
शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् 123a
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् 123c
प्रायादतिमहाघोरं यमक्षयमहोदधिम् 124a
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् 124c
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् 125a
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः 125c
जघान सुरथं नाम द्रुपदस्य सुतं विभुः 126a
पुनः श्रुतञ्जयं नाम सुरथस्यानुजं रणे 126c
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् 127a
श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् 127c
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् 128a
शत्रुञ्जयं च बलिनं शक्रलोकं निनाय ह 128c
जघान स पृषध्रं च चन्द्रदेवं च मानिनम् 129a
कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् 129c
अश्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् 130a
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् 130c
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् 130e
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः 131a
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते 131c
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः 132a
द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् 132c
तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप 133a
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह 133c
पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत 133e
अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैः समन्तात् 134a
निधनमुपगतैर्मही कृताभूद्गिरिशिखरैरिव दुर्गमातिरौद्रा 134c
तं सिद्धगन्धर्वपिशाचसङ्घा नागाः सुपर्णाः पितरो वयांसि 135a
रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च 135c