धृतराष्ट्र उवाच 001
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि 001a
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा 001c
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम 002a
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत 002c
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि 003a
यदभ्यगान्महातेजाः पाञ्चालानपराजितः 003c
किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने 004a
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत 004c
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् 005a
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः 005c
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे 005e
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् 006a
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो 006c
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः 007a
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् 007c
सर्वेषु सैन्येषु च सङ्गतेषु रात्रौ समेतेषु महारथेषु 008a
संलोड्यमानेषु पृथग्विधेषु के वस्तदानीं मतिमन्त आसन् 008c
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि 009a
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् 009c
कथमेषां तदा तत्र पार्थानामपलायिनाम् 010a
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय 010c
सञ्जय उवाच 011
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे 011a
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः 011c
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् 012a
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः 012c
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः 013a
तान्सर्वान्प्रेषयामास परलोकाय भारत 013c
प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् 014a
अभ्यवर्तत सङ्क्रुद्धः शिबी राजन्प्रतापवान् 014c
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् 015a
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः 015c
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः 016a
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् 016c
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः 017a
अथास्य सशिरस्त्राणं शिरः कायादपाहरत् 017c
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे 018a
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् 018c
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 019a
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा 019c
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः 020a
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह 020c
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा 021a
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् 021c
तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः 022a
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः 022c
ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः 023a
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् 023c
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् 023e
तं निहत्य महाराज भीमसेनो महाबलः 024a
जयरातरथं प्राप्य मुहुः सिंह इवानदत् 024c
जयरातमथाक्षिप्य नदन्सव्येन पाणिना 025a
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् 025c
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् 026a
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः 026c
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः 027a
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना 027c
ततस्तव सुता राजन्भीमस्य रथमाव्रजन् 028a
महता शरवर्षेण छादयन्तो वृकोदरम् 028c
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे 029a
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् 029c
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे 029e
तावेकरथमारूढौ भ्रातरौ परतापनौ 030a
सङ्ग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् 030c
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् 030e
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ 031a
रथमेकं समारुह्य भीमं बाणैरविध्यताम् 031c
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च 032a
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः 032c
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् 033a
पादप्रहारेण धरां प्रावेशयदरिन्दमः 033c
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ 034a
मुष्टिनाहत्य सङ्क्रुद्धो ममर्द चरणेन च 034c
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् 035a
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति 035c
एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः 036a
विसञ्ज्ञावाहयन्वाहान्न च द्वौ सह धावतः 036c
ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः 037a
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली 037c
ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः 038a
वृकोदरं भृशमभिपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः 038c
ततः सुतास्तव वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना 039a
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् 039c
ततोऽभवत्तिमिरघनैरिवावृतं महाभये भयदमतीव दारुणम् 040a
निशामुखे बडवृकगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम् 040c