धृतराष्ट्र उवाच 001
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी 001a
उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् 001c
प्रविश्य विचरन्तं च रणे शूरमवस्थितम् 002a
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् 002c
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः 003a
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे 003c
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः 004a
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् 004c
सञ्जय उवाच 005
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च 005a
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् 005c
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः 006a
पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् 006c
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः 007a
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः 007c
मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि 007e
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः 008a
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत 008c
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः 009a
ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् 009c
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः 010a
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् 010c
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः 011a
सहिताः सन्न्यवर्तन्त द्रोणमेव द्विजर्षभम् 011c
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ 012a
बभूव रजनी घोरा भीरूणां भयवर्धिनी 012c
योधानामशिवा रौद्रा राजन्नन्तकगामिनी 013a
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा 013c
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः 014a
न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः 014c
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् 015a
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् 015c
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् 016a
भेरीशब्देन महता मृदङ्गानां स्वनेन च 016c
गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः 017a
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् 017c
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् 018a
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः 018c
तमसा चावृते लोके न प्राज्ञायत किञ्चन 019a
सैन्येन रजसा चैव समन्तादुत्थितेन ह 019c
नरस्याश्वस्य नागस्य समसज्जत शोणितम् 020a
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः 020c
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते 021a
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् 021c
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते 022a
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे 022c
भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम् 023a
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् 023c
ततः सा भारती सेना मणिहेमविभूषिता 024a
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ 024c
गोमायुबडसङ्घुष्टा शक्तिध्वजसमाकुला 025a
दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता 025c
ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः 026a
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः 026c
सा निशीथे महाराज सेनादृश्यत भारती 027a
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता 027c
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः 028a
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः 028c
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः 029a
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः 029c
दुर्योधनपुरोवातां रथनागबलाहकाम् 030a
वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् 030c
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् 031a
शरधारास्त्रपवनां भृशं शीतोष्णसङ्कुलाम् 031c
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् 032a
तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः 032c
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते 033a
भीरूणां त्रासजनने शूराणां हर्षवर्धने 033c
रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे 034a
द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः 034c
ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः 035a
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् 035c