सञ्जय उवाच 001
तदुदीर्णगजाश्वौघं बलं तव जनाधिप 001a
पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः 001c
पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् 002a
यमराष्ट्राय महते परलोकाय दीक्षिताः 002c
शूराः शूरैः समागम्य शरतोमरशक्तिभिः 003a
विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् 003c
रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् 004a
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् 004c
वारणाश्च महाराज समासाद्य परस्परम् 005a
विषाणैर्दारयामासुः सङ्क्रुद्धाश्च मदोत्कटाः 005c
हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः 006a
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः 006c
पत्तयश्च महाबाहो शतशः शस्त्रपाणयः 007a
अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे 007c
गोत्राणां नामधेयानां कुलानां चैव मारिष 008a
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह 008c
अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः 009a
प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् 009c
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः 010a
न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च 010c
तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः 011a
दुर्योधनो महाराज व्यवगाहत तद्बलम् 011c
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः 012a
मर्तव्यमिति सञ्चिन्त्य प्राविशत्तु द्विषद्बलम् 012c
नादयन्रथघोषेण कम्पयन्निव मेदिनीम् 013a
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् 013c
स सन्निपातस्तुमुलस्तस्य तेषां च भारत 014a
अभवत्सर्वसैन्यानामभावकरणो महान् 014c
मध्यन्दिनगतं सूर्यं प्रतपन्तं गभस्तिभिः 015a
तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः 015c
न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् 016a
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये 016c
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना 017a
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना 017c
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः 017e
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः 018a
यादृशं कृतवान्राजा पुत्रस्तव विशां पते 018c
पुत्रेण तव सा सेना पाण्डवी मथिता रणे 019a
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा 019c
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी 020a
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा 020c
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत 021a
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् 021c
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः 022a
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् 022c
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः 023a
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः 023c
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः 024a
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् 024c
शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे 025a
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः 025c
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः 026a
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष 026c
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः 027a
मर्माणि भित्त्वा ते सर्वे सम्भग्नाः क्षितिमाविशन् 027c
ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् 028a
वृत्रहत्यै यथा देवाः परिवव्रुः पुरन्दरम् 028c
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष 029a
शरं परमदुर्वारं प्रेषयामास संयुगे 029c
स तेन भृशसंविद्धो निषसाद रथोत्तमे 029e
ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् 030a
हतो राजेति राजेन्द्र मुदितानां समन्ततः 030c
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष 031a
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे 031c
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् 032a
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् 032c
प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः 033a
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् 033c
चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा 033e
ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः 034a
तावकानां परेषां च समेतानां युयुत्सया 034c