सञ्जय उवाच 001
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः 001a
अमर्षवशमापन्नो युद्धायैव मनो दधे 001c
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव 002a
पश्य कृष्णसहायेन पाण्डवेन किरीटिना 002c
आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् 002e
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः 003a
मिषतां योधमुख्यानां सैन्धवो विनिपातितः 003c
पश्य राधेय राजानः पृथिव्यां प्रवरा युधि 004a
पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः 004c
मम व्यायच्छमानस्य समरे शत्रुसूदन 005a
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह 005c
कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः 006a
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे 006c
प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः 007a
ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन 007c
अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परन्तपः 008a
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम 008c
यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति 009a
सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः 009c
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति 010a
मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे 010c
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि 011a
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् 011c
कर्ण उवाच 012
आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः 012a
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे 012c
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः 013a
दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् 013c
ततो नो युध्यमानानां परं शक्त्या सुयोधन 014a
सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् 014c
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे 015a
हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः 015c
सततं चेष्टमानानां निकृत्या विक्रमेण च 015e
दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् 016a
कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते 016c
यत्कर्तव्यं मनुष्येण व्यवसायवता सता 017a
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता 017c
निकृत्या निकृताः पार्था विषयोगैश्च भारत 018a
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः 018c
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् 019a
यत्नेन च कृतं यत्ते दैवेन विनिपातितम् 019c
युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् 020a
यततस्तव तेषां च दैवं मार्गेण यास्यति 020c
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् 021a
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह 021c
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा 022a
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि 022c
बहूनि तव सैन्यानि योधाश्च बहवस्तथा 023a
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत 023c
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः 024a
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् 024c
सञ्जय उवाच 025
एवं सम्भाषमाणानां बहु तत्तज्जनाधिप 025a
पाण्डवानामनीकानि समदृश्यन्त संयुगे 025c
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 026a
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव 026c