धृतराष्ट्र उवाच 001
सिन्धुराजे हते तात समरे सव्यसाचिना 001a
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा 001c
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि 002a
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय 002c
सञ्जय उवाच 003
निष्टानको महानासीत्सैन्यानां तव भारत 003a
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च 003c
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे 004a
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः 004c
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः 005a
मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत 005c
दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि 006a
अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् 006c
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे 007a
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना 007c
अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः 008a
तदैवाज्ञासिषमहं नेयमस्तीति भारती 008c
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि 009a
तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे 009c
यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि 010a
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः 010c
त एते घ्नन्ति नस्तात विशिखा जयचोदिताः 011a
यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे 011c
तास्ता विलपतश्चापि विदुरस्य महात्मनः 012a
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः 012c
तदिदं वर्तते घोरमागतं वैशसं महत् 013a
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव 013c
यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् 014a
अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् 014c
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया 015a
नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् 015c
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह 016a
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः 016c
पुत्राणामिव चैतेषां धर्ममाचरतां सदा 017a
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः 017c
पाण्डवानामयं कोपस्त्वया शकुनिना सह 018a
आहृतो धृतराष्ट्रस्य सम्मते कुरुसंसदि 018c
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः 019a
क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः 019c
यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् 020a
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः 020c
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति 021a
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् 021c
यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते 022a
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः 022c
मय्येव हि विशेषेण तथा दुर्योधन त्वयि 023a
आशंसत परित्राणमर्जुनात्स महीपतिः 023c
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् 024a
न किञ्चिदनुपश्यामि जीवितत्राणमात्मनः 024c
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे 025a
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना 025c
तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि 026a
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत 026c
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः 027a
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् 027c
मध्ये महारथानां च यत्राहन्यत सैन्धवः 028a
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे 028c
कृप एव च दुर्धर्षो यदि जीवति पार्थिव 029a
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् 029c
यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै 030a
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् 030c
अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः 030e
न ते वसुन्धरास्तीति तदहं चिन्तये नृप 031a
इमानि पाण्डवानां च सृञ्जयानां च भारत 031c
अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष 031e
नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् 032a
कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव 032c
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे 033a
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता 033c
यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय 034a
आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव 034c
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् 035a
धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः 035c
चक्षुर्मनोभ्यां सन्तोष्या विप्राः सेव्याश्च शक्तितः 036a
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः 036c
एष त्वहमनीकानि प्रविशाम्यरिसूदन 037a
रणाय महते राजंस्त्वया वाक्शल्यपीडितः 037c
त्वं च दुर्योधन बलं यदि शक्नोषि धारय 038a
रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः 038c
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् 039a
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् 039c