सञ्जय उवाच 001
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः 001a
अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये 001c
अमन्यतार्जुनसमो योधो भुवि न विद्यते 001e
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च 002a
क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष 002c
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् 003a
अवधीत्सैन्धवं सङ्ख्ये नैनं कश्चिदवारयत् 003c
सर्वथा हतमेवैतत्कौरवाणां महद्बलम् 004a
न ह्यस्य विद्यते त्राता साक्षादपि पुरन्दरः 004c
यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः 005a
स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः 005c
परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् 006a
स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः 006c
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् 007a
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि 007c
एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् 008a
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ 008c
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् 009a
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः 009c
दुर्योधन उवाच 010
पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् 010a
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् 010c
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः 011a
पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति 011c
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना 012a
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः 012c
अस्मद्विजयकामानां सुहृदामुपकारिणाम् 013a
गन्तास्मि कथमानृण्यं गतानां यमसादनम् 013c
ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः 014a
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते 014c
सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् 015a
नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे 015c
मम लुब्धस्य पापस्य तथा धर्मापचायिनः 016a
व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् 016c
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः 017a
विवरं नाशकद्दातुं मम पार्थिवसंसदि 017c
सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् 018a
शयानं नाशकं त्रातुं भीष्ममायोधने हतम् 018c
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् 019a
किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् 019c
जलसन्धं महेष्वासं पश्य सात्यकिना हतम् 020a
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् 020c
काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च 021a
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम 021c
व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः 022a
यतमानाः परं शक्त्या विजेतुमहितान्मम 022c
तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप 023a
तर्पयिष्यामि तानेव जलेन यमुनामनु 023c
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर 024a
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि 024c
निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह 025a
शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् 025c
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः 026a
श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज 026c
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे 027a
भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनञ्जये 027c
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः 028a
कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् 028c
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः 029a
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति 029c
तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः 030a
मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः 030c
हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् 031a
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 031c
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः 032a
हता मदर्थं सङ्ग्रामे युध्यमानाः किरीटिना 032c
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् 033a
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् 033c