सञ्जय उवाच 001
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत 001a
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः 001c
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् 002a
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् 002c
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ 003a
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः 003c
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता 004a
दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे 004c
न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते 005a
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन 005c
तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् 006a
यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः 006c
पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा 007a
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव 007c
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः 008a
त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव 008c
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः 009a
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि 009c
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर 010a
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् 010c
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन 011a
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः 011c
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् 012a
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते 012c
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् 013a
त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम 013c
स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् 014a
ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् 014c
अनादिनिधनं देवं लोककर्तारमव्ययम् 015a
त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते 015c
परं पुराणं पुरुषं पुराणानां परं च यत् 016a
प्रपद्यतस्तं परमं परा भूतिर्विधीयते 016c
योऽगात चतुरो वेदान्यश्च वेदेषु गीयते 017a
तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् 017c
धनञ्जयसखा यश्च धनञ्जयहितश्च यः 018a
तं धनञ्जयगोप्तारं प्रपद्य सुखमेधते 018c
इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ 019a
तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् 019c
तव कोपाग्निना दग्धः पापो राजा जयद्रथः 020a
उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे 020c
हन्यते निहतं चैव विनङ्क्ष्यति च भारत 021a
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन 021c
त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः 022a
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः 022c
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः 023a
शरतल्पगतः शेते भीष्मः कुरुपितामहः 023c
दुर्लभो हि जयस्तेषां सङ्ग्रामे रिपुसूदन 024a
याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव 024c
राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च 025a
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद 025c
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् 026a
राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर 026c
ततो भीमो महाबाहुः सात्यकिश्च महारथः 027a
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ 027c
स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ 027e
तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ 028a
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी 028c
दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् 029a
द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् 029c
दिष्ट्या च निर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः 029e
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे 030a
दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः 030c
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ 031a
समरश्लाघिनौ वीरौ समरेष्वपलायिनौ 031c
मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् 031e
इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ 032a
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह 032c
ततः प्रमुदितं सर्वं बलमासीद्विशां पते 033a
पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे 033c