धृतराष्ट्र उवाच 001
तथा गतेषु शूरेषु तेषां मम च सञ्जय 001a
किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व सञ्जय 001c
सञ्जय उवाच 002
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः 002a
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् 002c
पुनः पुनस्तूबरक मूढ औदरिकेति च 003a
अकृतास्त्रक मा योधीर्बाल सङ्ग्रामकातर 003c
इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय 004a
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत 004c
एतद्व्रतं महाबाहो त्वया सह कृतं मया 005a
यथैतन्मम कौन्तेय तथा तव न संशयः 005c
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम 006a
यथा भवति तत्सत्यं तथा कुरु धनञ्जय 006c
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः 007a
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे 007c
कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत 008a
अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि साम्प्रतम् 008c
द्विविधं कर्म शूराणां युद्धे जयपराजयौ 009a
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः 009c
मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः 010a
यदृच्छया भीमसेनं विरथं कृतवानसि 010c
अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः 011a
युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् 011c
पूरयन्तं यथाशक्ति शूरकर्माहवे तथा 011e
पश्यतां सर्वसैन्यानां केशवस्य ममैव च 012a
विरथो भीमसेनेन कृतोऽसि बहुशो रणे 012c
न च त्वां परुषं किञ्चिदुक्तवान्पण्डुनन्दनः 012e
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः 013a
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम 013c
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि 014a
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते 014c
तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः 015a
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् 015c
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे 016a
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः 016c
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे 016e
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे 017a
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् 017c
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु 018a
महान्सुतुमुलः शब्दो बभूव रथिनां तदा 018c
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये 019a
मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् 019c
ततो राजन्हृषीकेशः सङ्ग्रामशिरसि स्थितम् 020a
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् 020c
दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया 021a
दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः 021c
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत 022a
सीदेत समरे जिष्णो नात्र कार्या विचारणा 022c
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् 023a
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् 023c
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा 024a
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् 024c
ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः 024e
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् 025a
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् 025c
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः 025e
एवमेव हते कर्णे सानुबन्धे दुरात्मनि 026a
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् 026c
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव 027a
प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा 027c
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव 028a
त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः 028c
तवैव भारो वार्ष्णेय तवैव विजयः प्रभो 029a
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन 029c
एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान् 030a
दर्शयामास पार्थाय क्रूरमायोधनं महत् 030c
श्रीकृष्ण उवाच 031
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः 031a
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः 031c
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः 032a
सञ्छिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः 032c
ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः 033a
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः 033c
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः 034a
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् 034c
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः 035a
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः 035c
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः 036a
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी 036c
चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः 037a
विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः 037c
कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः 038a
संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् 038c
नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह 039a
सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् 039c
संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् 040a
पदातिसादिसङ्घांश्च क्षतजौघपरिप्लुतान् 040c
सञ्जय उवाच 041
एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिनः 041a
स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् 041c