धृतराष्ट्र उवाच 001
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना 001a
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय 001c
सञ्जय उवाच 002
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष 002a
अमर्षवशमापन्नः कृपः शारद्वतस्तदा 002c
महता शरवर्षेण पाण्डवं समवाकिरत् 003a
द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् 003c
तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् 004a
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् 004c
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः 005a
पीड्यमानः परामार्तिमगमद्रथिनां वरः 005c
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च 006a
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः 006c
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च 007a
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् 007c
ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः 008a
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् 008c
अथ शारद्वतो राजन्कौन्तेयशरपीडितः 009a
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह 009c
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् 010a
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् 010c
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि 011a
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् 011c
दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् 012a
रथ एव महेष्वासः कृपणं पर्यदेवयत् 012c
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् 013a
कुलान्तकरणे पापे जातमात्रे सुयोधने 013c
नीयतां परलोकाय साध्वयं कुलपांसनः 014a
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् 014c
तदिदं समनुप्राप्तं वचनं सत्यवादिनः 015a
तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् 015c
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् 016a
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः 016c
ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा 017a
एष शेते रथोपस्थे मद्बाणैरभिपीडितः 017c
अकामयानेन मया विशिखैरर्दितो भृशम् 018a
अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे 018c
शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः 019a
प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै 019c
शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् 020a
कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् 020c
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः 021a
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते 021c
ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः 022a
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः 022c
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् 023a
आचार्यं शरवर्षेण रथे सादयता कृपम् 023c
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः 024a
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति 024c
तदिदं वचनं साधोराचार्यस्य महात्मनः 025a
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता 025c
नमस्तस्मै सुपूज्याय गौतमायापलायिने 026a
धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् 026c
तथा विलपमाने तु सव्यसाचिनि तं प्रति 027a
सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् 027c
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः 028a
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् 028c
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति 029a
न मृष्यति हतं नूनं भूरिश्रवसमाहवे 029c
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन 030a
मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः 030c
एवमुक्तो महाबाहुः केशवः सव्यसाचिना 031a
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः 031c
अलमेष महाबाहुः कर्णायैको हि पाण्डव 032a
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः 032c
न च तावत्क्षमः पार्थ कर्णेन तव सङ्गरः 033a
प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी 033c
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् 033e
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा 034a
अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः 034c
धृतराष्ट्र उवाच 035
योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः 035a
हते तु भूरिश्रवसि सैन्धवे च निपातिते 035c
सात्यकिश्चापि विरथः कं समारूढवान्रथम् 036a
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय 036c
सञ्जय उवाच 037
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे 037a
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः 037c
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो 038a
विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना 038c
अतीतानागतं राजन्स हि वेत्ति जनार्दनः 039a
अतः सूतं समाहूय दारुकं सन्दिदेश ह 039c
रथो मे युज्यतां काल्यमिति राजन्महाबलः 039e
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः 040a
मानवा वा विजेतारः कृष्णयोः सन्ति केचन 040c
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः 041a
तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा 041c
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् 042a
दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः 042c
दारुकोऽवेत्य सन्देशं श्रुत्वा शङ्खस्य च स्वनम् 043a
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् 043c
स केशवस्यानुमते रथं दारुकसंयुतम् 044a
आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम् 044c
कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः 045a
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः 045c
युक्तं समारुह्य च तं विमानप्रतिमं रथम् 046a
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् 046c
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ 047a
धनञ्जयरथं हित्वा राधेयं प्रत्युदीययुः 047c
राधेयोऽपि महाराज शरवर्षं समुत्सृजन् 048a
अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् 048c
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् 049a
तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत 049c
उपारमत तत्सैन्यं सरथाश्वनरद्विपम् 050a
तयोर्दृष्ट्वा महाराज कर्म सम्मूढचेतनम् 050c
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् 051a
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च 051c
गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः 052a
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः 052c
नभस्तलगताश्चैव देवगन्धर्वदानवाः 053a
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् 053c
मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे 054a
कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः 054c
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् 055a
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः 055c
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः 056a
कर्णः शोकसमाविष्टो महोरग इव श्वसन् 056c
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा 057a
अभ्यद्रवत वेगेन पुनः पुनररिन्दमः 057c
तं तु सम्प्रेक्ष्य सङ्क्रुद्धं सात्यकिः प्रत्यविध्यत 058a
महता शरवर्षेण गजः प्रतिगजं यथा 058c
तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ 059a
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ 059c
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः 060a
बिभेद सर्वगात्रेषु पुनः पुनररिन्दमः 060c
सारथिं चास्य भल्लेन रथनीडादपाहरत् 061a
अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः 061c
छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः 062a
चकार विरथं कर्णं तव पुत्रस्य पश्यतः 062c
ततो विमनसो राजंस्तावकाः पुरुषर्षभाः 063a
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा 063c
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् 064a
ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन 064c
तथा सात्यकिना वीरे विरथे सूतजे कृते 065a
हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् 065c
कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः 066a
दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् 066c
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् 067a
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् 067c
तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव 068a
दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी 068c
रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा 069a
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् 069c
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः 070a
पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः 070c
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा 071a
नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः 071c
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः 072a
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः 072c
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् 072e
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः 073a
कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः 073c
शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते 073e
धृतराष्ट्र उवाच 074
अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः 074a
विरथं कृतवान्कर्णं वासुदेवसमो युवा 074c
दारुकेण समायुक्तं स्वबाहुबलदर्पितः 075a
कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः 075c
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् 076a
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय 076c
सञ्जय उवाच 077
शृणु राजन्यथा तस्य रथमन्यं महामतिः 077a
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् 077c
आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम् 078a
तारासहस्रखचितं सिंहध्वजपताकिनम् 078c
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः 079a
पाण्डुरैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः 079c
चित्रकाञ्चनसन्नाहैर्वाजिमुख्यैर्विशां पते 080a
घण्टाजालाकुलरवं शक्तितोमरविद्युतम् 080c
वृतं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् 081a
रथं सम्पादयामास मेघगम्भीरनिस्वनम् 081c
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् 082a
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् 082c
कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः 083a
चित्रकाञ्चनसन्नाहैः सदश्वैर्वेगवत्तरैः 083c
हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम् 084a
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् 084c
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् 085a
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 085c
भूयश्चापि निबोध त्वं तवापनयजं क्षयम् 086a
एकत्रिंशत्तव सुता भीमसेनेन पातिताः 086c
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् 087a
शतशो निहताः शूराः सात्वतेनार्जुनेन च 087c
भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष 088a
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव 088c