सञ्जय उवाच 001
स रणे व्यचरत्पार्थः प्रेक्षणीयो धनञ्जयः 001a
युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् 001c
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे 002a
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् 002c
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः 003a
सङ्ग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे 003c
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः 004a
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः 004c
स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः 005a
मोहयन्निव नाराचैर्जयद्रथवधेप्सया 005c
विसृजन्दिक्षु सर्वासु शरानसितसारथिः 006a
स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः 006c
भ्रमन्त इव शूरस्य शरव्राता महात्मनः 007a
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः 007c
आददानं महेष्वासं सन्दधानं च पाण्डवम् 008a
विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा 008c
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे 009a
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् 009c
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् 009e
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना 010a
न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः 010c
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् 011a
आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् 011c
मुमोच निशितान्सङ्ख्ये सायकान्सव्यसाचिनि 011e
त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् 012a
अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा 012c
स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् 013a
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह 013c
सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् 013e
स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः 014a
वराहः सिन्धुराजस्य पपाताग्निशिखोपमः 014c
एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे 015a
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः 015c
धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः 016a
अस्तं महीधरश्रेष्ठं यियासति दिवाकरः 016c
शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति 016e
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः 017a
स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् 017c
जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् 018a
अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना 018c
तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः 019a
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः 019c
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः 019e
शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः 020a
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि 020c
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दम 021a
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः 021c
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् 022a
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः 022c
तस्यापि शतधा मूर्धा फलिष्यति न संशयः 022e
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् 023a
वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः 023c
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् 024a
समन्तपञ्चकादस्माद्बहिर्वानरकेतन 024c
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे 025a
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा 025c
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज 026a
उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत 026c
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले 027a
तवापि शतधा मूर्धा फलिष्यति न संशयः 027c
यथा चैतन्न जानीयात्स राजा पृथिवीपतिः 028a
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः 028c
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन 029a
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन 029c
एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् 030a
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् 030c
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् 031a
विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः 031c
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः 032a
शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् 032c
अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनञ्जयः 033a
दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च 033c
शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः 034a
समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः 034c
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः 035a
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष 035c
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् 036a
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् 036c
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् 037a
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम 037c
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः 038a
उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् 038c
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् 039a
गते तस्यापि शतधा मूर्धागच्छदरिन्दम 039c
ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् 040a
वासुदेवश्च बीभत्सुं प्रशशंस महारथम् 040c
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् 041a
पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् 041c
भीमसेनोऽपि सङ्ग्रामे बोधयन्निव पाण्डवम् 042a
सिंहनादेन महता पूरयामास रोदसी 042c
तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः 043a
सैन्धवं निहतं मेने फल्गुनेन महात्मना 043c
ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् 044a
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया 044c
ततः प्रववृते राजन्नस्तं गच्छति भास्करे 045a
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो लोमहर्षणः 045c
ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः 046a
सैन्धवे निहते राजन्नयुध्यन्त महारथाः 046c
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च 047a
अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः 047c
अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान् 048a
अयोधयन्महाराज हत्वा सैन्धवकं नृपम् 048c
स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्समन्तात् 049a
यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वां प्रतिज्ञां समवाप्य वीरः 049c