धृतराष्ट्र उवाच 001
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे 001a
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय 001c
सञ्जय उवाच 002
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत 002a
वासुदेवं महाबाहुरर्जुनः समचूचुदत् 002c
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः 003a
अस्तमेति महाबाहो त्वरमाणो दिवाकरः 003c
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया 004a
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः 004c
नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः 005a
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् 005c
ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् 006a
हयज्ञश्चोदयामास जयद्रथरथं प्रति 006c
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः 007a
त्वरमाणा महाराज सेनामुख्याः समाव्रजन् 007c
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् 008a
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः 008c
समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् 009a
नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव 009c
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् 010a
अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति 010c
अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन् 011a
यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व 011c
अल्पावशिष्टं दिवसं नृवीर विघातयस्वाद्य रिपुं शरौघैः 012a
दिनक्षयं प्राप्य नरप्रवीर ध्रुवं हि नः कर्ण जयो भविष्यति 012c
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति 013a
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् 013c
अनर्जुनायां च भुवि मुहूर्तमपि मानद 014a
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः 014c
विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् 015a
वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् 015c
दैवेनोपहतः पार्थो विपरीतश्च मानद 016a
कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे 016c
नूनमात्मविनाशाय पाण्डवेन किरीटिना 017a
प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति 017c
कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः 018a
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् 018c
रक्षितं मद्रराजेन कृपेण च महात्मना 019a
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः 019c
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च 020a
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः 020c
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः 021a
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद 021c
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः 022a
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे 022c
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष 023a
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् 023c
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना 024a
भृशमुद्वेजितः सङ्ख्ये शरजालैरनेकशः 024c
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद 025a
नैवाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य रणेषुभिः 025c
योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे 026a
यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् 026c
न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् 027a
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः 027c
यत्तु शक्तिमता कार्यं सततं हितकारिणा 028a
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः 028c
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः 029a
त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः 029c
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः 030a
पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् 030c
कर्णकौरवयोरेवं रणे सम्भाषमाणयोः 031a
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् 031c
चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् 032a
भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे 032c
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः 033a
हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः 033c
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् 034a
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च 034c
हयवारणमुख्याश्च प्रापतन्त सहस्रशः 035a
ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च 035c
कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् 036a
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् 036c
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली 037a
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः 037c
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः 038a
स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः 038c
तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसम्मताः 039a
नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः 039c
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् 040a
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः 040c
संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् 041a
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः 041c
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः 042a
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् 042c
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ 043a
सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे 043c
ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् 044a
मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति 044c
तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः 045a
द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे 045c
सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः 046a
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् 046c
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः 047a
अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् 047c
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः 048a
महता रथवंशेन सर्वतः पर्यवारयन् 048c
विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् 049a
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते 049c
तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत 050a
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च 050c
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च 051a
एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् 051c
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः 052a
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः 052c
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः 053a
विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् 053c
श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते 054a
सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः 054c
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च 055a
सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः 055c
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् 056a
धनञ्जयस्य गात्रेषु शूराः परिघबाहवः 056c
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली 057a
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः 057c
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः 058a
मिषतो भीमसेनस्य सात्वतस्य च भारत 058c
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे 059a
सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः 059c
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष 060a
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः 060c
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः 061a
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह 061c
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष 062a
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् 062c
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे 063a
सायकानां शतेनैव सर्वमर्मस्वताडयत् 063c
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् 064a
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत 064c
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः 064e
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे 065a
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः 065c
वधार्थं चास्य समरे सायकं सूर्यवर्चसम् 066a
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः 066c
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् 067a
अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि 067c
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् 068a
कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् 068c
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया 068e
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ 069a
सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः 069c
अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् 069e
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन 070a
इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तथा 070c
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च 071a
प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे 071c
प्रशस्यमानौ समरे सिद्धचारणवातिकैः 072a
अयुध्येतां महाराज परस्परवधैषिणौ 072c
ततो दुर्योधनो राजंस्तावकानभ्यभाषत 073a
यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् 073c
निवर्तिष्यति राधेय इति मामुक्तवान्वृषः 073e
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् 074a
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् 074c
अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः 074e
सारथिं चास्य भल्लेन रथनीडादपाहरत् 075a
छादयामास च शरैस्तव पुत्रस्य पश्यतः 075c
स छाद्यमानः समरे हताश्वो हतसारथिः 076a
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत 076c
तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा 077a
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् 077c
मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः 078a
शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् 078c
धनञ्जयं द्वादशभिराजघान शिलीमुखैः 078e
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः 079a
पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् 079c
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः 080a
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च 080c
सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः 081a
शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् 081c
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः 082a
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् 082c
अथार्जुनः सर्वतोधारमस्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् 083a
तं प्रत्युदीयुः कुरवः पाण्डुसूनुं रथैर्महार्हैः शरवर्षाण्यवर्षन् 083c
ततस्तु तस्मिंस्तुमुले समुत्थिते सुदारुणे भारत मोहनीये 084a
नामुह्यत प्राप्य स राजपुत्रः किरीटमाली विसृजन्पृषत्कान् 084c
राज्यप्रेप्सुः सव्यसाची कुरूणां स्मरन्क्लेशान्द्वादशवर्षवृत्तान् 085a
गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदप्रमेयैः 085c
प्रदीप्तोल्कमभवच्चान्तरिक्षं देहेषु भूरीण्यपतन्वयांसि 086a
यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति 086c
किरीटमाली महता महायशाः शरासनेनास्य शराननीकजित् 087a
हयप्रवेकोत्तमनागधूर्गतान्कुरुप्रवीरानिषुभिर्न्यपातयत् 087c
गदाश्च गुर्वीः परिघानयस्मयानसींश्च शक्तीश्च रणे नराधिपाः 088a
महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाभिदुद्रुवुः 088c
स तानुदीर्णान्सरथाश्ववारणान्पदातिसङ्घांश्च महाधनुर्धरः 089a
विपन्नसर्वायुधजीवितान्रणे चकार वीरो यमराष्ट्रवर्धनान् 089c