धृतराष्ट्र उवाच 001
अजितो द्रोणराधेयविकर्णकृतवर्मभिः 001a
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे 001c
स कथं कौरवेयेण समरेष्वनिवारितः 002a
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः 002c
सञ्जय उवाच 003
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा 003a
यथा च भूरिश्रवसो यत्र ते संशयो नृप 003c
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः 004a
बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः 004c
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः 005a
नहुषस्य ययातिस्तु राजर्षिर्देवसम्मितः 005c
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः 006a
यदोरभूदन्ववाये देवमीढ इति श्रुतः 006c
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसम्मतः 007a
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः 007c
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि 008a
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः 008c
एतस्मिन्नेव काले तु देवकस्य महात्मनः 009a
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे 009c
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् 010a
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः 010c
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः 011a
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप 011c
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् 012a
बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव 012c
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः 013a
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः 013c
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः 014a
कृपया च पुनस्तेन जीवेति स विसर्जितः 014c
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष 015a
प्रसादयन्महादेवममर्षवशमास्थितः 015c
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः 016a
वरेण छन्दयामास स तु वव्रे वरं नृपः 016c
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् 017a
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे 017c
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव 018a
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत 018c
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् 019a
न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् 019c
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि 020a
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ 020c
लब्धलक्ष्याश्च सङ्ग्रामे बहवश्चित्रयोधिनः 021a
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः 021c
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः 021e
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो 022a
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ 022c
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः 023a
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः 023c
जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे 023e
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः 024a
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि 024c
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः 025a
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च 025c
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः 026a
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते 026c
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् 027a
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप 027c
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो 028a
कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् 028c