सञ्जय उवाच 001
स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः 001a
आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः 001c
प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना 002a
वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः 002c
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः 003a
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् 003c
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि 004a
अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः 004c
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् 005a
किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति 005c
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना 006a
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा 006c
ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः 007a
अयुध्यमानस्य कथं रणे प्रहृतवानसि 007c
न प्रमत्ताय भीताय विरथाय प्रयाचते 008a
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः 008c
इदं तु नीचाचरितमसत्पुरुषसेवितम् 009a
कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् 009c
आर्येण सुकरं ह्याहुरार्यकर्म धनञ्जय 010a
अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि 010c
येषु येषु नरः पार्थ यत्र यत्र च वर्तते 011a
आशु तच्छीलतामेति तदिदं त्वयि दृश्यते 011c
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः 012a
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः 012c
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया 013a
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते 013c
को हि नाम प्रमत्ताय परेण सह युध्यते 014a
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् 014c
व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः 015a
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः 015c
एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः 016a
युयुधानं परित्यज्य रणे प्रायमुपाविशत् 016c
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः 017a
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् 017c
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः 018a
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः 018c
ततः स सर्वसेनायां जनः कृष्णधनञ्जयौ 019a
गर्हयामास तं चापि शशंस पुरुषर्षभम् 019c
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् 020a
प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः 020c
तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः 021a
अमृष्यमाणो मनसा तेषां तस्य च भाषितम् 021c
असङ्क्रुद्धमना वाचा स्मारयन्निव भारत 022a
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः 022c
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् 023a
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे 023c
यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि 024a
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् 024c
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः 025a
यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः 025c
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः 026a
अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् 026c
एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् 027a
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् 027c
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः 028a
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः 028c
अर्जुन उवाच 029
या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे 029a
नकुले सहदेवे च सा मे त्वयि शलाग्रज 029c
मया तु समनुज्ञातः कृष्णेन च महात्मना 030a
गच्छ पुण्यकृताल्ँलोकाञ्शिबिरौशीनरो यथा 030c
सञ्जय उवाच 031
तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना 031a
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः 031c
निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् 032a
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् 032c
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् 033a
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः 033c
वार्यमाणः स कृष्णेन पार्थेन च महात्मना 034a
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च 034c
कर्णेन वृषसेनेन सैन्धवेन तथैव च 035a
विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् 035c
प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे 036a
सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः 036c
नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा 037a
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् 037c
सहस्राक्षसमं तत्र सिद्धचारणमानवाः 038a
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् 038c
अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः 039a
पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः 039c
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा 040a
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् 040c
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा 041a
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे 041c
सात्यकिरुवाच 042
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ 042a
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः 042c
यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः 043a
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः 043c
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि 044a
यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यात्पदा रुषा 044c
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः 044e
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः 045a
मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् 045c
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः 045e
यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता 046a
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः 046c
भवितव्यं च यद्भावि दैवं चेष्टयतीव च 047a
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् 047c
अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि 048a
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् 048c
सञ्जय उवाच 049
एवमुक्ते महाराज सर्वे कौरवपाण्डवाः 049a
न स्म किञ्चिदभाषन्त मनसा समपूजयन् 049c
मन्त्रैर्हि पूतस्य महाध्वरेषु यशस्विनो भूरिसहस्रदस्य 050a
मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत् 050c
सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम् 051a
अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवोत्तरेण 051c
स तेजसा शस्त्रहतेन पूतो महाहवे देहवरं विसृज्य 052a
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्य धर्मेण परेण रोदसी 052c