सञ्जय उवाच 001
तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् 001a
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् 001c
तमब्रवीन्महाबाहुः कौरव्यः शिनिपुङ्गवम् 002a
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत 002c
चिराभिलषितं काममद्य प्राप्स्यामि संयुगे 003a
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् 003c
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् 004a
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् 004c
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले 005a
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ 005c
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया 006a
सव्रीडो भविता सद्यो येनासीह प्रवेशितः 006c
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः 007a
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते 007c
चिराभिलषितो ह्यद्य त्वया सह समागमः 008a
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा 008c
अद्य युद्धं महाघोरं तव दास्यामि सात्वत 009a
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् 009c
अद्य संयमनीं याता मया त्वं निहतो रणे 010a
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै 010c
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव 011a
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् 011c
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः 012a
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे 012c
चक्षुर्विषयसम्प्राप्तो न त्वं माधव मोक्ष्यसे 013a
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा 013c
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव 014a
कौरवेय न सन्त्रासो विद्यते मम संयुगे 014c
स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् 015a
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे 015c
किं मृषोक्तेन बहुना कर्मणा तु समाचर 016a
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते 016c
श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते 017a
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव 017c
त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि 018a
नाहत्वा सन्निवर्तिष्ये त्वामद्य पुरुषाधम 018c
अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुङ्गवौ 019a
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे 019c
समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे 020a
द्विरदाविव सङ्क्रुद्धौ वाशितार्थे मदोत्कटौ 020c
भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ 021a
शरवर्षाणि भीमानि मेघाविव परस्परम् 021c
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः 022a
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः 022c
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् 023a
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवम् 023c
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते 024a
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो 024c
तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम् 025a
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ 025c
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ 026a
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् 026c
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् 027a
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ 027c
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ 028a
परस्परमयुध्येतां वारणाविव यूथपौ 028c
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ 029a
जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः 029c
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् 030a
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् 030c
सम्प्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती 031a
यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ 031c
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च 032a
विरथावसियुद्धाय समेयातां महारणे 032c
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे 033a
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः 033c
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः 034a
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ 034c
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ 035a
रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् 035c
मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् 036a
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः 036c
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे 037a
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः 037c
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ 038a
बाहुभिः समसज्जेतामायसैः परिघैरिव 038c
तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा 039a
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः 039c
तयोर्नृवरयो राजन्समरे युध्यमानयोः 040a
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव 040c
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ 041a
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ 041c
क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः 042a
पश्यस्वैनं विरथं युध्यमानं रणे केतुं सर्वधनुर्धराणाम् 042c
प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः 043a
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः 043c
परिश्रान्तो युधां श्रेष्ठः सम्प्राप्तो भूरिदक्षिणम् 044a
युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन 044c
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् 045a
उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् 045c
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः 046a
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः 046c
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत 047a
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् 047c
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् 048a
तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् 048c
न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् 049a
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो 049c
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः 050a
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् 050c
महाद्विपेनेव वने मत्तेन हरियूथपम् 050e
हाहाकारो महानासीत्सैन्यानां भरतर्षभ 051a
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि 051c
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः 052a
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि 052c
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे 053a
मूर्धजेषु निजग्राह पदा चोरस्यताडयत् 053c
तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे 054a
वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत 054c
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् 055a
तव शिष्यं महाबाहो धनुष्यनवरं त्वया 055c
असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे 056a
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् 056c
एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः 057a
मनसा पूजयामास भूरिश्रवसमाहवे 057c
विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे 058a
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः 058c
प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् 059a
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति 059c
एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् 060a
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत 060c
सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव 061a
एष त्वसुकरं कर्म यादवार्थे करोम्यहम् 061c
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः 062a
सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् 062c