सञ्जय उवाच 001
तमुद्यतं महाबाहुं दुःशासनरथं प्रति 001a
त्वरितं त्वरणीयेषु धनञ्जयहितैषिणम् 001c
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः 002a
सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् 002c
अथैनं रथवंशेन सर्वतः सन्निवार्य ते 003a
अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः 003c
अजयद्राजपुत्रांस्तान्यतमानान्महारणे 004a
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः 004c
सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम् 005a
असिशक्तिगदापूर्णमप्लवं सलिलं यथा 005c
तत्राद्भुतमपश्याम शैनेयचरितं रणे 006a
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् 006c
उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा 007a
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा 007c
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः 008a
त्रिगर्ताः सन्न्यवर्तन्त सन्तप्ताः स्वजनं प्रति 008c
तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन् 009a
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः 009c
तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः 010a
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः 010c
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् 011a
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् 011c
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् 012a
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् 012c
तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् 013a
असावायाति शैनेयस्तव पार्थ पदानुगः 013c
एष शिष्यः सखा चैव तव सत्यपराक्रमः 014a
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः 014c
एष कौरवयोधानां कृत्वा घोरमुपद्रवम् 015a
तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः 015c
एष द्रोणं तथा भोजं कृतवर्माणमेव च 016a
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः 016c
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् 017a
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः 017c
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः 018a
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः 018c
बहूनेकरथेनाजौ योधयित्वा महारथान् 019a
आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः 019c
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् 020a
प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः 020c
यस्य नास्ति समो योधः कौरवेषु कथञ्चन 021a
सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः 021c
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव 022a
निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः 022c
एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः 023a
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः 023c
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे 024a
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः 024c
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् 025a
तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः 025c
ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् 026a
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः 026c
न हि जानामि वृत्तान्तं धर्मराजस्य केशव 027a
सात्वतेन विहीनः स यदि जीवति वा न वा 027c
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः 028a
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः 028c
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः 029a
प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे 029c
सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः 030a
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः 030c
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः 031a
श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् 031c
परिश्रान्ता हयाश्चास्य हययन्ता च माधव 032a
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव 032c
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे 033a
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः 033c
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः 033e
अपि कौरवमुख्येन कृतास्त्रेण महात्मना 034a
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् 034c
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव 035a
आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् 035c
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् 036a
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः 036c