धृतराष्ट्र उवाच 001
अहन्यहनि मे दीप्तं यशः पतति सञ्जय 001a
हता मे बहवो योधा मन्ये कालस्य पर्ययम् 001c
धनञ्जयस्तु सङ्क्रुद्धः प्रविष्टो मामकं बलम् 002a
रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि 002c
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः 003a
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च 003c
तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् 004a
ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् 004c
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः 005a
चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः 005c
अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः 006a
युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः 006c
यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् 007a
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः 007c
तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् 008a
धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय 008c
सञ्जय उवाच 009
तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम् 009a
समीक्ष्य राजन्नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन 009c
नदन्यथा वज्रधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः 010a
निघ्नन्नमित्रान्धनुषा दृढेन सङ्कम्पयंस्तव पुत्रस्य सेनाम् 010c
तं यान्तमश्वै रजतप्रकाशैरायोधने नरवीरं चरन्तम् 011a
नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् 011c
अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी 012a
अलम्बुसः सात्यकिं माधवाग्र्यमवारयद्राजवरोऽभिपत्य 012c
तयोरभूद्भारत सम्प्रहारस्तथागतो नैव बभूव कश्चित् 013a
प्रैक्षन्त एवाहवशोभिनौ तौ योधास्त्वदीयाश्च परे च सर्वे 013c
अविध्यदेनं दशभिः पृषत्कैरलम्बुसो राजवरः प्रसह्य 014a
अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैः शिनिपुङ्गवोऽपि 014c
पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सुपुङ्खैः 015a
विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम् 015c
तैः कायमस्याग्न्यनिलप्रभावैर्विदार्य बाणैरपरैर्ज्वलद्भिः 016a
आजघ्निवांस्तान्रजतप्रकाशानश्वांश्चतुर्भिश्चतुरः प्रसह्य 016c
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः 017a
अलम्बुसस्योत्तमवेगवद्भिर्हयांश्चतुर्भिर्निजघान बाणैः 017c
अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसन्निभेन 018a
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् 018c
निहत्य तं पार्थिवपुत्रपौत्रं सङ्ख्ये मधूनामृषभः प्रमाथी 019a
ततोऽन्वयादर्जुनमेव वीरः सैन्यानि राजंस्तव सन्निवार्य 019c
अन्वागतं वृष्णिवरं समीक्ष्य तथारिमध्ये परिवर्तमानम् 020a
घ्नन्तं कुरूणामिषुभिर्बलानि पुनः पुनर्वायुरिवाभ्रपूगान् 020c
ततोऽवहन्सैन्धवाः साधु दान्ता गोक्षीरकुन्देन्दुहिमप्रकाशाः 021a
सुवर्णजालावतताः सदश्वा यतो यतः कामयते नृसिंहः 021c
अथात्मजास्ते सहिताभिपेतुरन्ये च योधास्त्वरितास्त्वदीयाः 022a
कृत्वा मुखं भारत योधमुख्यं दुःशासनं त्वत्सुतमाजमीढ 022c
ते सर्वतः सम्परिवार्य सङ्ख्ये शैनेयमाजघ्नुरनीकसाहाः 023a
स चापि तान्प्रवरः सात्वतानां न्यवारयद्बाणजालेन वीरः 023c
निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः 024a
दुःशासनस्यापि जघान वाहानुद्यम्य बाणासनमाजमीढ 024c