सञ्जय उवाच 001
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः 001a
मुमोच शरवर्षाणि चित्राणि च बहूनि च 001c
वध्यमानो महाराज सूतपुत्रेण पाण्डवः 002a
न विव्यथे भीमसेनो भिद्यमान इवाचलः 002c
स कर्णं कर्णिना कर्णे पीतेन निशितेन च 003a
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा 003c
स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि 004a
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् 004c
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे 005a
आजघान भृशं भीमः स्मयन्निव महाबलः 005c
पुनरस्य त्वरन्भीमो नाराचान्दश भारत 006a
रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा 006c
ते ललाटं समासाद्य सूतपुत्रस्य मारिष 007a
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः 007c
ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत 008a
नीलोत्पलमयीं मालां धारयन्स पुरा यथा 008c
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना 009a
वेगं चक्रे महावेगो भीमसेनवधं प्रति 009c
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् 010a
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत 010c
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः 011a
समरे तमनादृत्य नास्य वीर्यमचिन्तयत् 011c
ततः कर्णो महाराज पाण्डवं निशितैः शरैः 012a
आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तपः 012c
जीमूताविव चान्योन्यं तौ ववर्षतुराहवे 013a
तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् 013c
शरजालैश्च विविधैश्छादयामासतुर्मृधे 014a
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ 014c
ततो भीमो महाबाहू राधेयस्य महात्मनः 015a
क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा 015c
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः 016a
अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् 016c
दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् 017a
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् 017c
हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः 018a
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत 018c
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् 019a
भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा 019c
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत 020a
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः 020c
मरीचिविकचस्येव राजन्भानुमतो वपुः 021a
आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः 021c
कराभ्यामाददानस्य सन्दधानस्य चाशुगान् 022a
विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे 022c
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् 023a
कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः 023c
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः 024a
प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् 024c
ततः कनकपुङ्खानां शराणां नतपर्वणाम् 025a
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः 025c
शरासनादाधिरथेः प्रभवन्तः स्म सायकाः 026a
श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे 026c
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् 027a
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् 027c
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः 028a
अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति 028c
ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः 029a
शलभानामिव व्राताः शराः कर्णसमीरिताः 029c
चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः 030a
एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः 030c
पर्वतं वारिधाराभिश्छादयन्निव तोयदः 031a
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः 031c
तत्र भारत भीमस्य बलवीर्यपराक्रमम् 032a
व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह 032c
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् 033a
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् 033c
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते 034a
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् 034c
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् 034e
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः 035a
गगने रचिता माला काञ्चनीव व्यराजत 035c
ततो व्योम्नि विषक्तानि शरजालानि भागशः 036a
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः 036c
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः 037a
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे 037c
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः 037e
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः 038a
उपारोहदनादृत्य तस्य वीर्यं महात्मनः 038c
तयोर्विसृजतोस्तत्र शरजालानि मारिष 039a
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् 039c
तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान् 040a
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया 040c
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् 041a
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् 041c
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः 042a
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः 042c
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् 043a
युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया 043c
तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः 044a
रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् 044c
अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् 045a
सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ 045c
उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः 046a
ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् 046c
स विधन्वा महाराज रथशक्तिं परामृशत् 047a
तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति 047c
तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् 048a
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः 048c
सापतद्दशधा राजन्निकृत्ता कर्णसायकैः 049a
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः 049c
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् 050a
खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा 050c
तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव 050e
स विचर्मा महाराज विरथः क्रोधमूर्छितः 051a
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति 051c
स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः 052a
अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् 052c
ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् 053a
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् 053c
स भीमसेनः कुपितो बलवान्सत्यविक्रमः 054a
विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः 054c
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः 055a
लयमास्थाय राधेयो भीमसेनमवञ्चयत् 055c
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् 056a
ध्वजमस्य समासाद्य तस्थौ स धरणीतले 056c
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् 057a
यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् 057c
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् 058a
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः 058c
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् 059a
संरब्धः पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् 059c
तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ 060a
जीमूताविव घर्मान्ते गर्जमानौ नभस्तले 060c
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः 061a
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव 061c
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः 062a
दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् 062c
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह 062e
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च 063a
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् 063c
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् 064a
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः 064c
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः 065a
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् 065c
चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले 066a
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः 066c
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः 067a
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् 067c
धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् 068a
उत्स्मयन्निव राधेयो भीमसेनमुवाच ह 068c
पुनः पुनस्तूबरक मूढ औदरिकेति च 069a
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर 069c
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव 070a
तत्र त्वं दुर्मते योग्यो न युद्धेषु कथञ्चन 070c
मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते 071a
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः 071c
फलमूलाशने युक्तस्त्वं तथातिथिभोजने 072a
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर 072c
पुष्पमूलफलाहारो व्रतेषु नियमेषु च 073a
उचितस्त्वं वने भीम न त्वं युद्धविशारदः 073c
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर 074a
न त्वं युद्धोचितस्तात वनवासरतिर्भव 074c
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् 075a
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर 075c
कौमारे यानि चाप्यासन्नप्रियाणि विशां पते 076a
पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् 076c
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः 077a
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा 077c
योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः 078a
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते 078c
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे 079a
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक 079c
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत 080a
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः 080c
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः 081a
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः 081c
ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः 082a
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् 082c
स भुजङ्गैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः 083a
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः 083c
स छिन्नधन्वा भीमेन धनञ्जयशराहतः 084a
कर्णो भीमादपायासीद्रथेन महता द्रुतम् 084c
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः 085a
अन्वयाद्भ्रातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् 085c
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः 086a
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः 086c
स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् 087a
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः 087c
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा 088a
धनञ्जयभयात्कर्णमुज्जिहीर्षुर्महारथः 088c
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः 089a
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् 089c
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् 090a
तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः 090c
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे 091a
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली 091c
धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् 092a
नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् 092c
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् 093a
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः 093c
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् 094a
पाकशासनिरायस्तः पार्थः सन्निजघान ह 094c