धृतराष्ट्र उवाच 001
महानपनयः सूत ममैवात्र विशेषतः 001a
स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः 001c
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् 002a
इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय 002c
यथा त्वेष क्षयो वृत्तो ममापनयसम्भवः 003a
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय 003c
सञ्जय उवाच 004
कर्णभीमौ महाराज पराक्रान्तौ महाहवे 004a
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ 004c
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः 005a
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् 005c
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः 006a
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः 006c
तयोः शरैर्महाराज सम्पतद्भिः समन्ततः 007a
बभूव तव सैन्यानां सङ्क्षोभः सागरोपमः 007c
भीमचापच्युतैर्बाणैस्तव सैन्यमरिन्दम 008a
अवध्यत चमूमध्ये घोरैराशीविषोपमैः 008c
वारणैः पतितै राजन्वाजिभिश्च नरैः सह 009a
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव 009c
ते वध्यमानाः समरे भीमचापच्युतैः शरैः 010a
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् 010c
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् 011a
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः 011c
ते शरातुरभूयिष्ठा हताश्वनरवाहनाः 012a
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् 012c
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः 013a
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः 013c
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः 014a
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः 014c
ततः प्रावर्तत नदी घोररूपा महाहवे 015a
बभूव च विशेषेण भीरूणां भयवर्धिनी 015c
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा 016a
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः 016c
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः 017a
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः 017c
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः 018a
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः 018c
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः 019a
प्रासतोमरसङ्घातैः खड्गैश्च सपरश्वधैः 019c
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः 020a
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि 020c
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी 020e
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः 021a
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत 021c
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि 022a
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः 022c
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुन्धरा 023a
पतितैरपविद्धैश्च सम्बभौ द्यौरिव ग्रहैः 023c
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् 024a
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत 024c
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे 025a
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् 025c
निपातितध्वजरथं हतवाजिनरद्विपम् 025e
गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नडवनं यथा 026a
तथाभूतं महत्सैन्यमासीद्भारत संयुगे 026c
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे 026e