सञ्जय उवाच 001
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् 001a
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् 001c
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् 002a
तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् 002c
भीमसेनेन निहतान्विमना दुःखितोऽभवत् 003a
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् 003c
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः 004a
बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः 004c
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ 005a
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः 005c
कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः 006a
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् 006c
कर्णचापच्युता बाणाः सम्पतन्तस्ततस्ततः 007a
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव 007c
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् 008a
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः 008c
खं पूरयन्महावेगान्खगमान्खगवाससः 009a
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् 009c
तमन्तकमिवायस्तमापतन्तं वृकोदरः 010a
त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः 010c
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः 011a
महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् 011c
ततो विधम्याधिरथेः शरजालानि पाण्डवः 012a
विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः 012c
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः 013a
तथैव कर्णं समरे छादयामास पाण्डवः 013c
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत 014a
अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः 014c
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः 015a
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ 015c
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः 016a
साधु साध्विति वेगेन सिंहनादमथानदन् 016c
तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे 017a
अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् 017c
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः 018a
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् 018c
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः 019a
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे 019c
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष 020a
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् 020c
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः 021a
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः 021c
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः 022a
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव 022c
ततो वामेन कौन्तेयः पीडयित्वा शरासनम् 023a
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् 023c
मनुष्यसमतां ज्ञात्वा सप्त सन्धाय सायकान् 024a
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः 024c
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव 025a
भीमसेनो महाराज पूर्ववैरमनुस्मरन् 025c
ते क्षिप्ता भीमसेनेन शरा भारत भारतान् 026a
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः 026c
तेषां विदार्य चेतांसि शरा हेमविभूषिताः 027a
व्यराजन्त महाराज सुपर्णा इव खेचराः 027c
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः 028a
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः 028c
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ 029a
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः 029c
शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः 030a
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः 030c
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः 031a
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः 031c
स रवस्तस्य शूरस्य धर्मराजस्य भारत 032a
आचख्याविव तद्युद्धं विजयं चात्मनो महत् 032c
तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः 033a
बभूव परमा प्रीतिर्धर्मराजस्य संयुगे 033c
ततो हृष्टो महाराज वादित्राणां महास्वनैः 034a
भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः 034c
अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् 035a
हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे 035c
एकत्रिंशन्महाराज पुत्रांस्तव महारथान् 036a
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः 036c
तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः 037a
इति सञ्चिन्त्य राजासौ नोत्तरं प्रत्यपद्यत 037c
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव 038a
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः 038c
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते 039a
कौरवाणां च सर्वेषामाचार्यस्य च सन्निधौ 039c
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 040a
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् 040c
यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् 041a
पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः 041c
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् 042a
विसृजंस्तव पुत्राणामन्तं गच्छति कौरव 042c
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि 043a
सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् 043c
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् 043e
प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् 044a
यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् 044c
पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह 044e
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् 045a
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च 045c