सञ्जय उवाच 001
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् 001a
क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् 001c
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा 002a
भीमसेनं ततः क्रुद्धः समाद्रवत सम्भ्रमात् 002c
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव 003a
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 003c
अवहासं तु तं पार्थो नामृष्यत वृकोदरः 004a
ततो विव्याध राधेयं शतेन नतपर्वणाम् 004c
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः 005a
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष 005c
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः 006a
इषुभिश्छादयामास भीमसेनं समन्ततः 006c
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् 007a
प्रजहास महाहासं कृते प्रतिकृतं पुनः 007c
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः 008a
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् 008c
अवारोहद्रथात्तस्मादथ कर्णो महारथः 009a
गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् 009c
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः 010a
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः 010c
ततो बाणसहस्राणि प्रेषयामास पाण्डवः 011a
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी 011c
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे 012a
कवचं भीमसेनस्य पातयामास सायकैः 012c
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 013a
पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् 013c
ततो भीमो महाराज नवभिर्नतपर्वणाम् 014a
रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष 014c
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् 015a
अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः 015c
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् 016a
भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् 016c
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति 016e
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् 017a
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् 017c
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः 018a
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः 018c
आगच्छतस्तान्सहसा भीमो राजन्महारथः 019a
साश्वसूतध्वजान्यत्तान्पातयामास संयुगे 019c
ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः 019e
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् 020a
अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत 020c
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः 021a
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी 021c
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः 022a
व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ 022c
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः 023a
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः 023c
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ 024a
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ 024c
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ 025a
विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ 025c
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् 026a
शरदंष्ट्रा विधुन्वानौ ततक्षतुररिन्दमौ 026c
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः 027a
तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ 027c
प्रच्छादयन्तौ समरे शरजालैः परस्परम् 028a
रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः 028c
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु 029a
व्यरोचेतां महात्मानौ वृत्रवज्रधराविव 029c
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः 030a
व्यरोचत रणे भीमः सविद्युदिव तोयदः 030c
स चापघोषस्तनितः शरधाराम्बुदो महान् 031a
भीममेघो महाराज कर्णपर्वतमभ्ययात् 031c
ततः शरसहस्रेण धनुर्मुक्तेन भारत 032a
पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः 032c
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् 033a
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः 033c
स नन्दयन्रणे पार्थं केशवं च यशस्विनम् 034a
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् 034c
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः 035a
पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह 035c