धृतराष्ट्र उवाच 001
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् 001a
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे 001c
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे 002a
न च कर्णसमं योधं लोके पश्यामि कञ्चन 002c
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः 002e
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः 003a
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा 003c
वसुषेणसहायं मां नालं देवापि संयुगे 004a
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः 004c
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् 005a
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् 005c
अहो दुर्मुखमेवैकं युद्धानामविशारदम् 006a
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः 006c
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः 007a
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय 007c
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् 008a
जानन्तो व्यवसायं च क्रूरं मारुततेजसः 008c
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् 009a
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे 009c
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः 010a
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः 010c
योऽजयत्समरे कर्णं पुरन्दर इवासुरम् 011a
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे 011c
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् 012a
भीमो धनञ्जयान्वेषी कस्तमर्छेज्जिजीविषुः 012c
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः 013a
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः 013c
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः 014a
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन 014c
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः 015a
ये भीमसेनं सङ्क्रुद्धमभ्यधावन्विमोहिताः 015c
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् 016a
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा 016c
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् 017a
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् 017c
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः 018a
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् 018c
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् 019a
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति सञ्जय 019c
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् 020a
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः 020c
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् 021a
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् 021c
वडवामुखमध्यस्थो मुच्येतापि हि मानवः 022a
न भीममुखसम्प्राप्तो मुच्येतेति मतिर्मम 022c
न पाण्डवा न पाञ्चाला न च केशवसात्यकी 023a
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् 023c
सञ्जय उवाच 024
यत्संशोचसि कौरव्य वर्तमाने जनक्षये 024a
त्वमस्य जगतो मूलं विनाशस्य न संशयः 024c
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः 025a
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् 025c
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् 026a
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम 026c
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् 027a
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत 027c
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् 028a
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष 028c
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः 029a
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन् 029c
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् 030a
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः 030c
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः 031a
प्रतिजग्राह समरे भीमसेनो हसन्निव 031c
तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् 032a
अभ्यवर्तत राधेयो भीमसेनं महाबलम् 032c
विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् 033a
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव 033c
कुरवस्तु ततः कर्णं परिवार्य समन्ततः 034a
अवाकिरन्भीमसेनं शरैः सन्नतपर्वभिः 034c
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् 035a
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् 035c
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः 036a
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः 036c
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् 037a
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् 037c
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः 038a
सूतपुत्रो महाराज भीमसेनमवैक्षत 038c
तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः 039a
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत 039c