सञ्जय उवाच 001
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः 001a
रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् 001c
महागजाविवासाद्य विषाणाग्रैः परस्परम् 002a
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 002c
अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् 003a
ननाद बलवन्नादं पुनर्विव्याध चोरसि 003c
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः 004a
पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् 004c
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे 005a
ध्वजमेकेन विव्याध सायकेन शितेन ह 005c
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत 006a
तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् 006c
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना 007a
सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः 007c
ततः शरं महाराज सर्वकायावदारणम् 008a
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् 008c
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः 009a
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः 009c
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् 010a
प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् 010c
तया जघानाधिरथेः सदश्वान्साधुवाहिनः 011a
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् 011c
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ 012a
ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा 012c
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् 013a
विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः 013c
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् 014a
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् 014c
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे 015a
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् 015c
एष दुर्मुख राधेयो भीमेन विरथीकृतः 016a
तं रथेन नरश्रेष्ठं सम्पादय महारथम् 016c
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः 017a
त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः 017c
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् 018a
वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् 018c
ततः कर्णं महाराज वारयित्वा शिलीमुखैः 019a
दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः 019c
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः 020a
सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् 020c
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते 021a
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् 021c
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् 022a
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत 022c
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् 023a
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत 023c
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः 024a
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश 024c
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः 025a
हेमचित्रा महाराज द्योतयन्तो दिशो दश 025c
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः 026a
क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः 026c
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः 027a
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः 027c
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः 028a
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् 028c
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः 029a
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव 029c
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् 030a
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः 030c
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः 031a
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा 031c
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः 032a
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः 032c
स विह्वलो महाराज कर्णो भीमबलार्दितः 033a
प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः 033c
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् 034a
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः 034c