धृतराष्ट्र उवाच 001
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् 001a
यत्कर्णं योधयामास समरे लघुविक्रमम् 001c
त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि 002a
वारयेद्यो रणे कर्णः सयक्षासुरमानवान् 002c
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया 003a
नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय 003c
कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे 004a
अत्र मन्ये समायत्तो जयो वाजय एव वा 004c
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः 005a
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् 005c
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा 006a
भीमसेनेन समरे मोह आविशतीव माम् 006c
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः 007a
न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय 007c
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह 008a
सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे 008c
अजय्याः पाण्डवास्तात देवैरपि सवासवैः 009a
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम 009c
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः 010a
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते 010c
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् 011a
जितानित्येव मन्वानः पाण्डवानवमन्यते 011c
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना 012a
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः 012c
शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः 013a
अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः 013c
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः 014a
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् 014c
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे 015a
अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ 015c
सञ्जय उवाच 016
शृणु राजन्यथा वृत्तः सङ्ग्रामः कर्णभीमयोः 016a
परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव 016c
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिन्दमम् 017a
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः 017c
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः 018a
आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः 018c
तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः 019a
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ 019c
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः 020a
शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् 020c
प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् 021a
समुत्क्षिप्य च राधेयः सन्धाय च महाबलः 021c
चिक्षेप भीमसेनाय जीवितान्तकरीमिव 021e
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम् 022a
ननाद सुमहानादं बलवान्सूतनन्दनः 022c
तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् 022e
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् 023a
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः 023c
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम् 024a
मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष 024c
प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः 025a
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे 025c
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् 026a
विकृष्य च महातेजा व्यसृजत्सायकान्नव 026c
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः 027a
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् 027c
छित्त्वा भीमो महाराज नादं सिंह इवानदत् 027e
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे 028a
शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् 028c
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ 029a
अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ 029c
महागजाविवासाद्य विषाणाग्रैः परस्परम् 030a
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 030c
निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् 031a
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ 031c
प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः 032a
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् 032c
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष 033a
शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम् 033c
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः 034a
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् 034c
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः 035a
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् 035c
एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् 036a
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् 036c
स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् 037a
षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः 037c
भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः 038a
दुर्जयं भिन्नमर्माणमनयद्यमसादनम् 038c
स्वलङ्कृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् 039a
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् 039c
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् 040a
समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः 040c
तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः 041a
न जहौ समरे भीमं क्रुद्धरूपं परन्तपः 041c