धृतराष्ट्र उवाच 001
यस्मिञ्जयाशा सततं पुत्राणां मम सञ्जय 001a
तं दृष्ट्वा विमुखं सङ्ख्ये किं नु दुर्योधनोऽब्रवीत् 001c
कर्णो वा समरे तात किमकार्षीदतः परम् 001e
सञ्जय उवाच 002
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् 002a
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः 002c
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः 002e
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते 003a
भीमसेनममन्यन्त वैवस्वतमुखे हुतम् 003c
चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् 004a
अभ्यवर्तत राधेयो भीमसेनरथं प्रति 004c
पुनरेव ततो राजन्महानासीत्सुदारुणः 005a
विमर्दः सूतपुत्रस्य भीमस्य च विशां पते 005c
संरब्धौ हि महाबाहू परस्परवधैषिणौ 006a
अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः 006c
क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ 007a
युद्धेऽन्योन्यं समासाद्य ततक्षतुररिन्दमौ 007c
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ 008a
शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम् 008c
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च 009a
विराटनगरे चैव प्राप्तं दुःखमरिन्दमः 009c
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः 010a
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् 010c
दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् 011a
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः 011c
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव 012a
नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः 012c
समक्षं तव कौरव्य यदूचुः कुरवस्तदा 013a
दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव 013c
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः 014a
परुषाण्युक्तवान्कर्णः सभायां सन्निधौ तव 014c
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह 015a
विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः 015c
बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन् 016a
निरविद्यत धर्मात्मा जीवितेन वृकोदरः 016c
ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् 017a
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् 017c
स सायकमयैर्जालैर्भीमः कर्णरथं प्रति 018a
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् 018c
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् 019a
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः 019c
महारथो महाबाहुर्महावेगैर्महाबलः 020a
विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः 020c
स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः 021a
अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः 021c
तमापतन्तं वेगेन रभसं पाण्डवर्षभम् 022a
कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् 022c
ततः प्रध्माप्य जलजं भेरीशतनिनादितम् 023a
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः 023c
तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत् 024a
भीमः कर्णं समासाद्य छादयामास सायकैः 024c
अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः 025a
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः 025c
ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः 026a
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् 026c
ते हया बह्वशोभन्त मिश्रिता वातरंहसः 027a
सितासिता महाराज यथा व्योम्नि बलाहकाः 027c
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ 028a
सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः 028c
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः 029a
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा 029c
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः 030a
नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे 030c
तयोः प्रैक्षन्त सम्मर्दं सन्निकृष्टमहास्त्रयोः 031a
तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते 031c
छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः 032a
शरजालावृतं व्योम चक्राते शरवृष्टिभिः 032c
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ 033a
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ 033c
सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिन्दमौ 034a
भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो 034c
ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः 035a
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे 035c
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम् 036a
अतिभारममन्येतां भीमे कृष्णधनञ्जयौ 036c
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः 037a
इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः 037c
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः 038a
कृतो महान्महाराज पुत्राणां ते जनक्षयः 038c
मनुष्याश्वगजानां च शरीरैर्गतजीवितैः 039a
क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ 039c