धृतराष्ट्र उवाच 001
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ 001a
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः 001c
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे 002a
कथं भूयस्तु राधेयो भीममागान्महारथः 002c
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे 003a
महारथसमाख्यातं पृथिव्यां प्रवरं रथम् 003c
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः 004a
नान्यतो भयमादत्त विना कर्णं धनुर्धरम् 004c
भयान्न शेते सततं चिन्तयन्वै महारथम् 005a
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे 005c
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम् 006a
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे 006c
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति 007a
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ 007c
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः 008a
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् 008c
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् 009a
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे 009c
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम 010a
कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति 010c
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे 011a
स कथं भीमकर्माणं भीमसेनमयुध्यत 011c
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः 012a
तं सूततनयं तात कथं भीमो ह्ययोधयत् 012c
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् 013a
स्मरमाणः कथं भीमो युयुधे सूतसूनुना 013c
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् 014a
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् 014c
यो जातः कुण्डलाभ्यां च कवचेन सहैव च 015a
तं सूतपुत्रं समरे भीमः कथमयोधयत् 015c
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः 016a
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय 016c
सञ्जय उवाच 017
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् 017a
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ 017c
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः 018a
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् 018c
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली 019a
आजुहाव रणे यान्तं भीममाधिरथिस्तदा 019c
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि 020a
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् 020c
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः 021a
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् 021c
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् 022a
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः 022c
तस्मै प्रासृजदुग्राणि विविधानि परन्तपः 023a
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष 023c
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः 024a
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः 024c
स यथावन्महाराज विद्यया वै सुपूजितः 025a
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे 025c
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव 026a
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् 026c
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे 027a
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः 027c
तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे 028a
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् 028c
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः 029a
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः 029c
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः 030a
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः 030c
ततो बाणमयं जालं भीमसेनरथं प्रति 031a
कर्णेन विहितं राजन्निमेषार्धाददृश्यत 031c
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा 032a
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः 032c
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् 033a
क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः 033c
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् 034a
समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः 034c
स कर्णचापप्रभवानिषूनाशीविषोपमान् 035a
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे 035c
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः 036a
विव्याध समरे कर्णं भीमसेनः प्रतापवान् 036c
अयत्नेनैव तं कर्णः शरैरुप समाकिरत् 037a
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् 037c
मृदुपूर्वं च राधेयो भीममाजावयोधयत् 038a
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् 038c
तं भीमसेनो नामृष्यदवमानममर्षणः 039a
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् 039c
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे 040a
निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः 040c
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः 041a
अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा 041c
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः 042a
राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे 042c
तस्य तानशनिप्रख्यानिषून्समरशोभिनः 043a
चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः 043c
पुनश्च शरवर्षेण छादयामास भारत 044a
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् 044c
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः 045a
समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव 045c
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् 046a
दधार समरे वीरः स्वरश्मीनिव भास्करः 046c
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत 047a
तपनीयनिभैः पुष्पैः पलाश इव कानने 047c
तत्तु भीमो महाराज कर्णस्य चरितं रणे 048a
नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी 048c
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् 049a
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः 049c
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च 050a
मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे 050c
ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान् 051a
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च 051c
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः 052a
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि 052c
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष 053a
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः 053c
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः 054a
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् 054c