सञ्जय उवाच 001
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते 001a
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् 001c
त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् 001e
स रथस्तव पुत्रस्य त्वरया परया युतः 002a
तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् 002c
उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः 003a
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः 003c
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः 004a
सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः 004c
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः 004e
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः 005a
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद 005c
आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम् 006a
निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च 006c
तथैव भीमसेनेन लोकः संवदते भृशम् 007a
कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः 007c
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे 008a
यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः 008c
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् 009a
यद्गतं गतमेवेह शेषं चिन्तय मानद 009c
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् 010a
तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् 010c
द्रोण उवाच 011
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु 011a
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः 011c
यावदेव भयं पश्चात्तावदेषां पुरःसरम् 011e
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ 012a
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः 012c
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् 013a
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् 013c
गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ 014a
सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् 014c
न सभायां जयो वृत्तो नापि तत्र पराजयः 015a
इह नो ग्लहमानानामद्य तात जयाजयौ 015c
यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि 016a
अक्षान्सम्मन्यमानः स प्रा क्शरास्ते दुरासदाः 016c
यत्र ते बहवस्तात कुरवः पर्यवस्थिताः 017a
सेनां दुरोदरं विद्धि शरानक्षान्विशां पते 017c
ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः 018a
सैन्धवे हि महाद्यूतं समासक्तं परैः सह 018c
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः 019a
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ 019c
तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ 019e
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् 020a
तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः 020c
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् 021a
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः 021c
ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् 022a
उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः 022c
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 023a
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् 023c
तौ हि पूर्वं महाराज वारितौ कृतवर्मणा 024a
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया 024c
ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् 025a
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली 025c
तावभिद्रवतामेनमुभावुद्यतकार्मुकौ 026a
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि 026c
युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान् 027a
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे 027c
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः 028a
जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी 028c
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे 029a
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् 029c
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः 030a
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि 030c
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा 031a
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे 031c
हताश्वसूतात्स रथादवप्लुत्य महारथः 032a
गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत 032c
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम् 033a
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ 033c
ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी 034a
गदया पोथयामास साश्वसूतध्वजं रणे 034c
हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः 035a
मद्रराजरथं तूर्णमारुरोह परन्तपः 035c
पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ 036a
रथमन्यं समारुह्य धनञ्जयमभीयतुः 036c