धृतराष्ट्र उवाच 001
तथा तु नर्दमानं तं भीमसेनं महाबलम् 001a
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् 001c
न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय 002a
क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे 002c
गदामुद्यच्छमानस्य कालस्येव महामृधे 003a
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे 003c
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च 004a
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः 004c
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः 005a
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः 005c
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् 006a
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः 006c
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे 007a
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् 007c
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः 008a
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय 008c
सञ्जय उवाच 009
तथा तु नर्दमानं तं भीमसेनं महारथम् 009a
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली 009c
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः 010a
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली 010c
प्रावेपन्निव गात्राणि कर्णभीमसमागमे 011a
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् 011c
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे 012a
खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः 012c
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः 013a
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ 013c
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 014a
वाहनानि महाराज बभूवुर्विमनांसि च 014c
प्रादुरासन्निमित्तानि घोराणि च बहूनि च 015a
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे 015c
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् 016a
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः 016c
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे 017a
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः 017c
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् 018a
असम्प्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः 018c
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् 018e
तं कर्णश्छादयामास शरव्रातैरनेकशः 019a
सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः 019c
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः 020a
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः 020c
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः 021a
विव्याध समरे भीमं भीमकर्मा महारथः 021c
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः 022a
निचखानोरसि तदा सूतपुत्रस्य वेगितः 022c
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा 023a
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ 023c
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः 024a
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः 024c
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः 025a
ससायकं धनुः कृत्वा भीमं विव्याध मारिष 025c
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः 025e
स छाद्यमानः सहसा कर्णेन दृढधन्विना 026a
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः 026c
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् 027a
वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः 027c
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते 028a
स्यन्दनं वृषसेनस्य समारोहन्महारथः 028c
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् 029a
ननाद सुमहानादं पर्जन्यनिनदोपमम् 029c
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः 030a
कर्णं च निर्जितं मत्वा भीमसेनेन भारत 030c
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा 031a
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् 031c
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् 031e
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः 032a
अश्रूयत महाराज सर्वसैन्येषु भारत 032c
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ 033a
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः 033c