सञ्जय उवाच 001
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा 001a
दिधारयिषुराचार्यः शरवर्षैरवाकिरत् 001c
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् 002a
सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् 002c
तं मृधे वेगमास्थाय परं परमधन्विनः 003a
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् 003c
स तथा संवृतो भीमः प्रहसन्निव भारत 004a
उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् 004c
अवासृजच्च वेगेन तेषु तान्प्रमथद्बली 004e
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना 005a
घोषेण महता राजन्पूरयित्वेव मेदिनीम् 005c
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् 005e
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् 006a
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् 006c
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष 007a
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा 007c
स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदः 008a
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् 008c
तथा तं विप्रकुर्वाणं रथयूथपयूथपम् 009a
भारद्वाजो महाराज भीमसेनं समभ्ययात् 009c
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः 010a
अकरोत्सहसा नादं पाण्डूनां भयमादधत् 010c
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् 011a
द्रोणस्य च महाराज भीमस्य च महात्मनः 011c
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः 012a
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः 012c
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः 013a
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् 013c
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया 014a
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् 014c
स वध्यमानः समरे रथं द्रोणस्य मारिष 015a
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः 015c
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे 016a
रथमन्यं समास्थाय व्यूहद्वारमुपाययौ 016c
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् 017a
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् 017c
ततः स्वरथमास्थाय भीमसेनो महाबलः 018a
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् 018c
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः 019a
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव 019c
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् 020a
प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् 020c
सन्त्रासयन्ननीकानि तलशब्देन मारिष 021a
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् 021c
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् 022a
तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् 022c
सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम् 023a
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा 023c
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् 024a
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः 024c
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् 025a
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी 025c
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् 026a
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः 026c
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह 027a
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव 027c
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः 028a
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् 028c
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः 029a
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः 029c
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् 030a
धनञ्जयस्य च रणे जयमाशास्तवान्विभुः 030c
तथा तु नर्दमाने वै भीमसेने रणोत्कटे 031a
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः 031c
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः 032a
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा 032c
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव 033a
दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः 033c
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः 034a
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ 034c
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः 035a
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः 035c
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः 036a
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः 036c
निवातकवचा येन देवैरपि सुदुर्जयाः 037a
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति 037c
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् 038a
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति 038c
कालकेयसहस्राणि चतुर्दश महारणे 039a
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति 039c
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै 040a
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति 040c
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः 041a
मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः 041c
पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम् 042a
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः 042c
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः 042e
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् 043a
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् 043c
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः 044a
नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः 044c
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् 045a
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति 045c
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे 046a
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति 046c
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले 047a
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति 047c
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति 048a
शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः 048c
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव 049a
कृपयाभिपरीतस्य घोरं युद्धमवर्तत 049c