सञ्जय उवाच 001
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः 001a
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः 001c
वर्तमाने तथा रौद्रे सङ्ग्रामे लोमहर्षणे 002a
प्रक्षये जगतस्तीव्रे युगान्त इव भारत 002c
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः 003a
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु 003c
नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः 004a
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति 004c
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया 005a
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् 005c
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् 006a
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः 006c
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् 007a
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः 007c
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ 007e
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः 008a
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति 008c
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे 009a
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः 009c
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै 010a
सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनञ्जयः 010c
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् 011a
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् 011c
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि 012a
युयुधानमनन्विष्य लोको मां गर्हयिष्यति 012c
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः 013a
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् 013c
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् 014a
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः 014c
यथैव च मम प्रीतिरर्जुने शत्रुसूदने 015a
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे 015c
अतिभारे नियुक्तश्च मया शैनेयनन्दनः 016a
स तु मित्रोपरोधेन गौरवाच्च महाबलः 016c
प्रविष्टो भारतीं सेनां मकरः सागरं यथा 016e
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् 017a
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता 017c
प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे 018a
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः 018c
गमनं रोचते मह्यं यत्र यातौ महारथौ 018e
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन 019a
शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः 019c
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा 019e
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः 020a
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः 020c
इतो गते भीमसेने सात्वतं प्रति पाण्डवे 021a
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ 021c
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ 022a
रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ 022c
अवश्यं तु मया कार्यमात्मनः शोकनाशनम् 023a
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् 023c
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति 023e
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः 024a
यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् 024c
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः 025a
रथं हेमपरिष्कारं भीमान्तिकमुपानयत् 025c
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् 026a
कश्मलं प्राविशद्राजा बहु तत्र समादिशन् 026c
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् 027a
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते 027c
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् 028a
नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् 028c
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः 029a
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते 029c
न ह्यसाध्यमकार्यं वा विद्यते मम मानद 030a
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः 030c
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् 031a
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः 031c
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते 032a
प्रेरितो वासुदेवेन संरब्धेन यशस्विना 032c
नूनमद्य हतः शेते तव भ्राता धनञ्जयः 032e
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः 033a
यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः 033c
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः 034a
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् 034c
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः 035a
श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः 035c
व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः 036a
चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः 036c
तदिदं मम भद्रं ते शोकस्थानमरिन्दम 037a
अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् 037c
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः 038a
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् 038c
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् 039a
स तं महारथं पश्चादनुयातस्तवानुजम् 039c
तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् 039e
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः 040a
यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः 040c
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः 041a
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे 041c
वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते 041e
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा 042a
चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः 042c
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः 042e
भीमसेन उवाच 043
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः 043a
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् 043c
आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः 044a
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् 044c
सञ्जय उवाच 045
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् 045a
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः 045c
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः 045e
विदितं ते महाबाहो यथा द्रोणो महारथः 046a
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते 046c
न च मे गमने कृत्यं तादृक्पार्षत विद्यते 047a
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः 047c
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे 048a
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः 048c
धर्मराजस्य वचने स्थातव्यमविशङ्कया 048e
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् 049a
एतद्धि सर्वकार्याणां परमं कृत्यमाहवे 049c
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् 050a
ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् 050c
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन 051a
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे 051c
ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः 052a
अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः 052c
परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत 053a
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः 053c
भीमसेनो महाबाहुः कवची शुभकुण्डली 054a
साङ्गदः सतनुत्राणः सशरी रथिनां वरः 054c
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् 055a
विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः 055c
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः 056a
कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः 056c
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया 057a
पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते 057c
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् 058a
पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत 058c
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् 059a
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् 059c
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि 060a
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः 060c
नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् 061a
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः 061c
स भीमस्त्वरया युक्तो याहि यत्र धनञ्जयः 062a
मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया 062c
दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् 062e
गच्छ गच्छेति च पुनर्भीमसेनमभाषत 063a
भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः 063c
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् 063e
विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः 064a
दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् 064c
तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः 065a
विशोकेनाभिसंयत्ता मनोमारुतरंहसः 065c
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना 066a
सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् 066c
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः 067a
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः 067c
तं ससेना महाराज सोदर्याः पर्यवारयन् 068a
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः 068c
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा 069a
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः 069c
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः 070a
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः 070c
विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः 071a
संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् 071c
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी 072a
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव 072c
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् 073a
वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् 073c
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् 074a
अग्रतश्च गजानीकं शरवर्षैरवाकिरत् 074c
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः 075a
दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः 075c
त्रासिताः शरभस्येव गर्जितेन वने मृगाः 076a
प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् 076c
पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् 077a
तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् 077c
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव 078a
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः 078c
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा 079a
भीमः करिष्यते पूजामित्युवाच वृकोदरम् 079c
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् 080a
मामनिर्जित्य समरे शत्रुमध्ये महाबल 080c
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम 081a
अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया 081c
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः 082a
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् 082c
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् 083a
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् 083c
येन वै परमां पूजां कुर्वता मानितो ह्यसि 084a
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः 084c
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् 085a
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः 085c
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते 086a
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह 086c
एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् 086e
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः 087a
द्रोणायावसृजद्राजन्स रथादवपुप्लुवे 087c
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा 088a
प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा 088c
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् 089a
अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः 089c
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी 090a
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् 090c
ते वध्यमानाः समरे तव पुत्रा महारथाः 091a
भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः 091c
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् 092a
सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् 092c
आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् 093a
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् 093c
अथान्यैर्निशितैर्बाणैः सङ्क्रुद्धः कुण्डभेदिनम् 094a
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली 094c
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् 095a
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः 095c
अभयं रौद्रकर्माणं दुर्विमोचनमेव च 096a
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव 096c
वध्यमाना महाराज पुत्रास्तव बलीयसा 097a
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् 097c
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् 098a
प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् 098c
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ 099a
विव्याध समरे तूर्णं स पपात ममार च 099c
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः 100a
दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः 100c
ततो वै रथघोषेण गर्जितेन मृगा इव 101a
वध्यमानाश्च समरे पुत्रास्तव विशां पते 101c
प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः 101e
अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् 102a
विव्याध समरे राजन्कौरवेयान्समन्ततः 102c
वध्यमाना महाराज भीमसेनेन तावकाः 103a
त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् 103c
तांस्तु निर्जित्य समरे भीमसेनो महाबलः 104a
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः 104c
तलशब्दं च सुमहत्कृत्वा भीमो महाबलः 105a
व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् 105c