सञ्जय उवाच 001
अपराह्णे महाराज सङ्ग्रामः समपद्यत 001a
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः 001c
शोणाश्वं रथमास्थाय नरवीरः समाहितः 002a
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् 002c
तव प्रियहिते युक्तो महेष्वासो महाबलः 003a
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः 003c
वरान्वरान्हि योधानां विचिन्वन्निव भारत 004a
अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् 004c
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः 005a
भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः 005c
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् 006a
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने 006c
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् 007a
प्रेषयामास सङ्क्रुद्धः सायकान्दश सप्त च 007c
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् 008a
एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् 008c
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः 009a
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः 009c
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् 010a
अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः 010c
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः 011a
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् 011c
ततो द्रोणो महाराज केकयं वै विशेषयन् 012a
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः 012c
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः 013a
ब्राह्मेणैव महाबाहुराहवे समुदीरितम् 013c
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे 014a
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः 014c
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् 015a
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् 015c
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम 016a
तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे 016c
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् 017a
क्रोधेन महताविष्टो व्यावृत्य नयने शुभे 017c
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 018a
सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् 018c
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष 019a
असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति 019c
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् 020a
व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत 020c
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे 021a
रथात्पुरुषशार्दूलः सम्भिन्नहृदयोऽपतत् 021c
बृहत्क्षत्रे हते राजन्केकयानां महारथे 022a
शैशुपालिः सुसङ्क्रुद्धो यन्तारमिदमब्रवीत् 022c
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः 023a
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् 023c
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् 024a
द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः 024c
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 025a
सहसा प्रापतद्द्रोणं पतङ्ग इव पावकम् 025c
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् 026a
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव 026c
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह 027a
चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे 027c
अथान्यद्धनुरादाय शैशुपालिर्महारथः 028a
विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः 028c
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः 029a
अथैनं पञ्चविंशत्या सायकानां समार्पयत् 029c
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे 030a
गदां चिक्षेप सङ्क्रुद्धो भारद्वाजरथं प्रति 030c
तामापतन्तीं सहसा घोररूपां भयावहाम् 031a
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् 031c
शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् 031e
सा पपात गदा भूमौ भारद्वाजेन सादिता 032a
रक्तमाल्याम्बरधरा तारेव नभसस्तलात् 032c
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः 033a
तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् 033c
तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे 034a
शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः 034c
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः 035a
प्रेषयामास समरे भारद्वाजः प्रतापवान् 035c
स तस्य कवचं भित्त्वा हृदयं चामितौजसः 036a
अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा 036c
पतङ्गं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः 037a
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे 037c
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् 038a
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् 038c
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् 039a
महाव्याघ्रो महारण्ये मृगशावं यथा बली 039c
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत 040a
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् 040c
स तु द्रोणं महाराज छादयन्सायकैः शितैः 041a
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा 041c
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः 042a
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः 042c
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् 043a
जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम् 043c
यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः 044a
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः 044c
ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे 045a
शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् 045c
ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः 046a
नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे 046c
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः 047a
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव 047c
ततो निष्टानको घोरः पाण्डवानामजायत 048a
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ 048c
मोहिताः शरवर्षेण भारद्वाजस्य संयुगे 049a
ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः 049c
चेदयश्च महाराज सृञ्जयाः सोमकास्तथा 050a
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया 050c
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः 051a
यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् 051c
निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति 051e
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः 052a
यमाय प्रेषयामास चेदिमुख्यान्विशेषतः 052c
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत 053a
पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः 053c
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति 054a
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष 054c
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् 055a
तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् 055c
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः 056a
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् 056c
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः 057a
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत 057c
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः 058a
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः 058c
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः 059a
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः 059c
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः 060a
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् 060c
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् 061a
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् 061c
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् 062a
स भिन्नहृदयो वाहादपतन्मेदिनीतले 062c
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते 063a
अथ द्रोणं समारोहच्चेकितानो महारथः 063c
स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 064a
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् 064c
तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् 065a
ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः 065c
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः 066a
समरे शरसंवीता भारद्वाजेन मारिष 066c
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् 067a
पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् 067c
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् 068a
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष 068c
आकर्णपलितः श्यामो वयसाशीतिकात्परः 069a
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् 069c
अथ द्रोणं महाराज विचरन्तमभीतवत् 070a
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् 070c
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप 071a
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव 071c
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः 072a
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः 072c
शतशः शेरते भूमौ निकृत्ता गोवृषा इव 073a
रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः 073c
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः 074a
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् 074c