धृतराष्ट्र उवाच 001
किं तस्यां मम सेनायां नासन्केचिन्महारथाः 001a
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् 001c
एको हि समरे कर्म कृतवान्सत्यविक्रमः 002a
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव 002c
अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः 003a
एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः 003c
कथं च युध्यमानानामपक्रान्तो महात्मनाम् 004a
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय 004c
सञ्जय उवाच 005
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् 005a
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् 005c
आह्णिकेषु समूहेषु तव सैन्यस्य मानद 006a
नास्ति लोके समः कश्चित्समूह इति मे मतिः 006c
तत्र देवाः स्म भाषन्ते चारणाश्च समागताः 007a
एतदन्ताः समूहा वै भविष्यन्ति महीतले 007c
न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते 008a
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् 008c
चण्डवाताभिपन्नानां समुद्राणामिव स्वनः 009a
रणेऽभवद्बलौघानामन्योन्यमभिधावताम् 009c
पार्थिवानां समेतानां बहून्यासन्नरोत्तम 010a
त्वद्बले पाण्डवानां च सहस्राणि शतानि च 010c
संरब्धानां प्रवीराणां समरे दृढकर्मणाम् 011a
तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः 011c
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष 012a
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः 012c
आगच्छत प्रहरत बलवत्परिधावत 013a
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ 013c
यथा सुखेन गच्छेतां जयद्रथवधं प्रति 014a
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् 014c
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः 014e
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् 015a
क्षोभयध्वं महावेगाः पवनाः सागरं यथा 015c
भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः 016a
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वासूनात्मनः प्रियान् 016c
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः 017a
स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् 017c
तथैव तावका राजन्प्रार्थयन्तो महद्यशः 018a
आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे 018c
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये 019a
हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् 019c
कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः 020a
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः 020c
तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः 021a
दुर्योधनो महाराज व्यगाहत महद्बलम् 021c
स सन्निपातस्तुमुलस्तेषां तस्य च भारत 022a
अभवत्सर्वसैन्यानामभावकरणो महान् 022c
धृतराष्ट्र उवाच 023
तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् 023a
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् 023c
एकस्य च बहूनां च सन्निपातो महाहवे 024a
विशेषतो नृपतिना विषमः प्रतिभाति मे 024c
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः 025a
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः 025c
सञ्जय उवाच 026
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत 026a
एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् 026c
दुर्योधनेन सहसा पाण्डवी पृतना रणे 027a
नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता 027c
तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव 028a
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् 028c
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः 029a
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् 029c
धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः 030a
केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः 030c
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे 031a
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः 031c
न सन्दधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः 032a
अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च 032c
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः 033a
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष 033c
विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः 034a
वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् 034c
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् 035a
यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः 035c
अथ दुर्योधनो राजा दृढमादाय कार्मुकम् 036a
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् 036c
तं तथा वादिनं राजंस्तव पुत्रं महारथम् 037a
प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः 037c
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् 038a
चण्डवातोद्धुतान्मेघान्सजलानचलो यथा 038c
तत्र राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः 039a
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् 039c