सञ्जय उवाच 001
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् 001a
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् 001c
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः 002a
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् 002c
स तु दुःशासनं वीरः सायकैरावृणोद्भृशम् 003a
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया 003c
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् 004a
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति 004c
तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः 005a
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः 005c
ते तु तं रथवंशेन महता पर्यवारयन् 006a
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः 006c
तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् 007a
योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् 007c
तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः 008a
महामारुतवेगेन रुग्णा इव महाद्रुमाः 008c
रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते 009a
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी 009c
शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः 010a
अशोभत महाराज किंशुकैरिव पुष्पितैः 010c
ते वध्यमानाः समरे युयुधानेन तावकाः 011a
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः 011c
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति 012a
भयात्पतगराजस्य गर्तानीव महोरगाः 012c
हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः 013a
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति 013c
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव 014a
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः 014c
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः 015a
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः 015c
सात्यकिं तु महाराज प्रहसन्निव भारत 016a
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः 016c
शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः 017a
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ 017c
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते 018a
सर्वपारशवीं शक्तिं विससर्ज जिघांसया 018c
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः 019a
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः 019c
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर 020a
सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह 020c
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव 021a
शरैरग्निशिखाकारैराजघान स्तनान्तरे 021c
सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः 021e
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत 022a
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे 022c
त्रिभिरेव महावेगैः शरैः सन्नतपर्वभिः 022e
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः 023a
सारथिं च सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः 023c
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः 024a
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् 024c
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी 024e
स छिन्नधन्वा विरथो हताश्वो हतसारथिः 025a
त्रिगर्तसेनापतिना स्वरथेनापवाहितः 025c
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत 026a
न जघान महाबाहुर्भीमसेनवचः स्मरन् 026c
भीमसेनेन हि वधः सुतानां तव भारत 027a
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे 027c
तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो 028a
जगाम त्वरितो राजन्येन यातो धनञ्जयः 028c