सञ्जय उवाच 001
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् 001a
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् 001c
दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः 002a
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः 002c
राजपुत्रो भवानत्र राजभ्राता महारथः 003a
किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि 003c
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह 004a
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे 004c
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे 005a
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः 005c
अप्रियाणां च वचनं पाण्डवेषु विशेषतः 006a
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा 006c
क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् 007a
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि 007c
शोच्येयं भारती सेना राजा चैव सुयोधनः 008a
यस्य त्वं कर्कशो भ्राता पलायनपरायणः 008c
ननु नाम त्वया वीर दीर्यमाणा भयार्दिता 009a
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी 009c
स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् 009e
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन 010a
कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये 010c
एकेन सात्वतेनाद्य युध्यमानस्य चानघ 011a
पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते 011c
यदा गाण्डीवधन्वानं भीमसेनं च कौरव 012a
यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि 012c
युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् 013a
न तुल्याः सात्यकिशरा येषां भीतः पलायसे 013c
यदि तावत्कृता बुद्धिः पलायनपरायणा 014a
पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् 014c
यावत्फल्गुननाराचा निर्मुक्तोरगसन्निभाः 015a
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः 015c
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे 016a
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः 016c
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः 017a
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः 017c
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् 018a
सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः 018c
पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः 019a
अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य पाण्डवैः 019c
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः 019e
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः 020a
गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः 020c
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत 021a
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् 021c
एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ 022a
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः 022c
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् 023a
आसाद्य च रणे यत्तो युयुधानमयोधयत् 023c
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा 024a
अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम् 024c
प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् 025a
द्रावयामास योधान्वै शतशोऽथ सहस्रशः 025c
ततो द्रोणो महाराज नाम विश्राव्य संयुगे 026a
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् 026c
तं जयन्तमनीकानि भारद्वाजं ततस्ततः 027a
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् 027c
स द्रोणं पञ्चभिर्विद्ध्वा शरैः सन्नतपर्वभिः 028a
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः 028c
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे 029a
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत 029c
सन्निरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष 030a
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः 030c
ते शरैरग्निसङ्काशैस्तोमरैश्च महाधनैः 031a
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् 031c
निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः 032a
महाजलधरान्व्योम्नि मातरिश्वा विवानिव 032c
ततः शरं महाघोरं सूर्यपावकसन्निभम् 033a
सन्दधे परवीरघ्नो वीरकेतुरथं प्रति 033c
स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् 034a
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव 034c
ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः 035a
पर्वताग्रादिव महांश्चम्पको वायुपीडितः 035c
तस्मिन्हते महेष्वासे राजपुत्रे महाबले 036a
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् 036c
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत 037a
तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः 037c
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः 038a
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव 038c
स वध्यमानो बहुधा राजपुत्रैर्महारथैः 039a
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे 039c
तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः 040a
पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् 040c
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः 041a
देवासुरे पुरा युद्धे यथा दैतेयदानवाः 041c
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् 042a
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् 042c
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् 043a
धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् 043c
अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति 043e
ततो हा हेति सहसा नादः समभवन्नृप 044a
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः 044c
सञ्छाद्यमानो बहुधा पार्षतेन महात्मना 045a
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत 045c
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः 046a
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् 046c
स गाढविद्धो बलिना भारद्वाजो महायशाः 047a
निषसाद रथोपस्थे कश्मलं च जगाम ह 047c
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी 048a
समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् 048c
अवप्लुत्य रथाच्चापि त्वरितः स महारथः 049a
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष 049c
हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः 049e
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः 050a
शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः 050c
योधयामास समरे धृष्टद्युम्नं महारथम् 050e
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः 051a
द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् 051c
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः 052a
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी 052c
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः 053a
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः 053c
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् 054a
क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः 054c
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः 055a
वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः 055c
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः 056a
शिरः प्रच्यावयामास फलं पक्वं तरोरिव 056c
ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः 056e
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा 057a
व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी 057c
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् 058a
स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिन्दमः 058c
न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो 058e