धृतराष्ट्र उवाच 001
सम्प्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् 001a
निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय 001c
कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् 002a
शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः 002c
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः 003a
कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः 003c
कथं च मम पुत्राणां जीवतां तत्र सञ्जय 004a
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः 004c
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् 005a
एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः 005c
विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति 006a
यत्रावध्यन्त समरे सात्वतेन महात्मना 006c
एकस्य हि न पर्याप्तं मत्सैन्यं तस्य सञ्जय 007a
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः 007c
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् 008a
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम 008c
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे 009a
युयुधानो न शकितो हन्तुं यः पुरुषर्षभः 009c
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः 010a
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः 010c
सञ्जय उवाच 011
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च 011a
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत 011c
ते पुनः सन्न्यवर्तन्त कृत्वा संशप्तकान्मिथः 012a
परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् 012c
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः 013a
शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा 013c
कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः 014a
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा 014c
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् 015a
शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् 015c
ततो रथसहस्रेण महारथशतेन च 016a
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः 016c
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः 017a
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः 017c
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत 018a
दुःशासनो महाराज सात्यक्तिं पर्यवारयत् 018c
तत्राद्भुतमपश्याम शैनेयचरितं महत् 019a
यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत 019c
अवधीच्च रथानीकं द्विरदानां च तद्बलम् 020a
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः 020c
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः 021a
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः 021c
कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः 022a
वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुन्धरा 022c
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष 023a
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत 023c
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः 024a
अञ्जनस्य कुले जाता वामनस्य च भारत 024c
सुप्रतीककुले जाता महापद्मकुले तथा 024e
ऐरावणकुले चैव तथान्येषु कुलेषु च 025a
जाता दन्तिवरा राजञ्शेरते बहवो हताः 025c
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् 026a
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः 026c
नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः 027a
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः 027c
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् 028a
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः 028c
तांश्चापि सर्वान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव 029a
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् 029c
अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः 030a
अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् 030c
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः 031a
अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः 031c
ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः 032a
उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः 032c
क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः 033a
चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् 033c
तेषामापततामेव शिलायुद्धं चिकीर्षताम् 034a
सात्यकिः प्रतिसन्धाय त्रिंशतं प्राहिणोच्छरान् 034c
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् 035a
बिभेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः 035c
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः 036a
प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष 036c
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः 037a
निकृत्तबाहवो राजन्निपेतुर्धरणीतले 037c
पाषाणयोधिनः शूरान्यतमानानवस्थितान् 038a
अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् 038c
ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः 039a
अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः 039c
अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः 040a
नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः 040c
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः 041a
शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः 041c
अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च 042a
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः 042c
हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः 043a
कुञ्जराः सन्न्यवर्तन्त युयुधानरथं प्रथि 043c
ततः शब्दः समभवत्तव सैन्यस्य मारिष 044a
माधवेनार्द्यमानस्य सागरस्येव दारुणः 044c
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् 045a
एष सूत रणे क्रुद्धः सात्वतानां महारथः 045c
दारयन्बहुधा सैन्यं रणे चरति कालवत् 046a
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय 046c
पाषाणयोधिभिर्नूनं युयुधानः समागतः 047a
तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः 047c
विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च 048a
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् 048c
इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः 049a
प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् 049c
आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः 050a
पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः 050c
एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह 051a
त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः 051c
अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम 052a
स्थाने वा गमने वापि दूरं यातश्च सात्यकिः 052c
तथैवं वदतस्तस्य भारद्वाजस्य मारिष 053a
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् 053c
ते वध्यमानाः समरे युयुधानेन तावकाः 054a
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः 054c
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत 055a
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति 055c