सञ्जय उवाच 001
जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् 001a
जगाम तव सैन्यस्य मध्येन रथिनां वरः 001c
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः 002a
मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् 002c
स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् 003a
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् 003c
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः 004a
रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ 004c
सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान् 005a
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह 005c
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः 006a
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः 006c
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् 007a
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् 007c
व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे 007e
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् 008a
जलसङ्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् 008c
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् 009a
परिवव्रुः सुसङ्क्रुद्धास्त्वदीयाः सात्यकिं रथाः 009c
दुर्योधनश्चित्रसेनो दुःशासनविविंशती 010a
शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः 010c
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः 011a
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः 011c
अथ शब्दो महानासीत्तव सैन्यस्य मारिष 012a
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि 012c
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः 013a
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव 013c
इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् 014a
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् 014c
नादयन्वै दिशः सर्वा रथघोषेण सारथे 015a
पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि 015c
एतद्बलार्णवं तात वारयिष्ये महारणे 016a
पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् 016c
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे 017a
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः 017c
निहतानाहवे पश्य पदात्यश्वरथद्विपान् 018a
मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः 018c
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः 019a
समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः 019c
जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः 019e
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः 020a
जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् 020c
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् 021a
देवासुररणप्रख्यः प्रावर्तत जनक्षयः 021c
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष 022a
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः 022c
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् 023a
असम्भ्रमं महाराज तावकानवधीद्बहून् 023c
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् 024a
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो 024c
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः 025a
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः 025c
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः 026a
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः 026c
बभ्राम तत्र तत्रैव गावः शीतार्दिता इव 026e
पदातिनं रथं नागं सादिनं तुरगं तथा 027a
अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः 027c
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः 028a
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप 028c
अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ 028e
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः 029a
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् 029c
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः 030a
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् 030c
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः 031a
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् 031c
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः 032a
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः 032c
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः 033a
शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः 033c
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च 034a
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 034c
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा 035a
दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः 035c
अथान्यद्धनुरादाय स्यालस्तव विशां पते 036a
अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः 036c
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः 037a
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् 037c
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् 038a
ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् 038c
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् 039a
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः 039c
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् 040a
आजघानाशु भल्लेन स हतो न्यपतद्भुवि 040c
पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो 041a
वातायमानैस्तैरश्वैरपानीयत सङ्गरात् 041c
ततस्तव सुता राजन्सैनिकाश्च विशां पते 042a
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् 042c
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः 043a
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः 043c
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः 044a
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति 044c
तं शरानाददानं च रक्षमाणं च सारथिम् 045a
आत्मानं मोचयन्तं च तावकाः समपूजयन् 045c