सञ्जय उवाच 001
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः 001a
सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् 001c
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् 002a
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् 002c
प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् 003a
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् 003c
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् 004a
जलसन्धबलेनाजौ पुरुषादैरिवावृतम् 004c
अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव 005a
तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् 005c
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् 006a
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे 006c
हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनञ्जयम् 007a
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः 007c
वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् 007e
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना 008a
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् 008c
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् 009a
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः 009c
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै 010a
अनस्तङ्गत आदित्ये हन्ता सैन्धवमर्जुनः 010c
शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् 011a
यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः 011c
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः 012a
शरबाणासनधरा यवनाश्च प्रहारिणः 012c
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः 013a
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः 013c
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः 013e
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः 014a
इदं दुर्गं महाघोरं तीर्णमेवोपधारय 014c
सूत उवाच 015
न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम 015a
यद्यपि स्यात्सुसङ्क्रुद्धो जामदग्न्योऽग्रतः स्थितः 015c
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा 016a
तथापि सम्भ्रमो न स्यात्त्वामाश्रित्य महाभुज 016c
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन 017a
न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कदाचन 017c
किमु चैतत्समासाद्य वीर संयुगगोष्पदम् 017e
आयुष्मन्कतरेण त्वा प्रापयामि धनञ्जयम् 018a
केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः 018c
केषां संयमनीमद्य गन्तुमुत्सहते मनः 018e
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् 019a
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे 019c
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज 019e
सात्यकिरुवाच 020
मुण्डानेतान्हनिष्यामि दानवानिव वासवः 020a
प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह 020c
अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् 020e
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः 021a
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् 021c
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे 022a
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः 022c
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः 023a
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे 023c
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः 024a
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति 024c
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् 025a
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः 025c
मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु 026a
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः 026c
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् 027a
द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः 027c
अद्य राजसहस्राणि निहतानि मया रणे 028a
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे 028c
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु 029a
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु 029c
सञ्जय उवाच 030
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः 030a
शशाङ्कसन्निकाशान्वै वाजिनोऽचूचुदद्भृशम् 030c
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः 031a
प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः 031c
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् 032a
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् 032c
तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः 033a
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः 033c
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः 034a
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि 034c
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः 035a
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् 035c
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे 036a
शतशो न्यपतंस्तत्र व्यसवो वसुधातले 036c
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः 037a
पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः 037c
काम्बोजानां सहस्रैस्तु शकानां च विशां पते 038a
शबराणां किरातानां बर्बराणां तथैव च 038c
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् 039a
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् 039c
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः 040a
तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव 040c
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ 041a
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् 041c
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः 042a
ते साश्वयाना निहताः समावव्रुर्वसुन्धराम् 042c
अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः 043a
जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः 043c
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान् 044a
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् 044c
काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत 045a
यवनानां च तत्सैन्यं शकानां च महद्बलम् 045c
स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः 046a
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् 046c
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते 047a
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् 047c