सञ्जय उवाच 001
द्रोणं स जित्वा पुरुषप्रवीरस्तथैव हार्दिक्यमुखांस्त्वदीयान् 001a
प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुङ्गवाग्र्य 001c
निमित्तमात्रं वयमत्र सूत दग्धारयः केशवफल्गुनाभ्याम् 002a
हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन 002c
तमेवमुक्त्वा शिनिपुङ्गवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा 003a
किरन्समन्तात्सहसा शरान्बली समापतच्छ्येन इवामिषं यथा 003c
तं यान्तमश्वैः शशिशङ्खवर्णैर्विगाह्य सैन्यं पुरुषप्रवीरम् 004a
नाशक्नुवन्वारयितुं समन्तादादित्यरश्मिप्रतिमं नराग्र्यम् 004c
असह्यविक्रान्तमदीनसत्त्वं सर्वे गणा भारत दुर्विषह्यम् 005a
सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाये 005c
अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी 006a
सुदर्शनः सात्यकिमापतन्तं न्यवारयद्राजवरः प्रसह्य 006c
तयोरभूद्भरत सम्प्रहारः सुदारुणस्तं समभिप्रशंसन् 007a
योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोर्युद्धमिवामरौघाः 007c
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्यत्सुदर्शनः सात्वतमुख्यमाजौ 008a
अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैः शिनिपुङ्गवोऽपि 008c
तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान्क्षिपति स्म सायकान् 009a
द्विधा त्रिधा तानकरोत्सुदर्शनः शरोत्तमैः स्यन्दनवर्यमास्थितः 009c
सम्प्रेक्ष्य बाणान्निहतांस्तदानीं सुदर्शनः सात्यकिबाणवेगैः 010a
क्रोधाद्दिधक्षन्निव तिग्मतेजाः शरानमुञ्चत्तपनीयचित्रान् 010c
पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सुपुङ्खैः 011a
विव्याध देहावरणं विभिद्य ते सात्यकेराविविशुः शरीरम् 011c
तथैव तस्यावनिपालपुत्रः सन्धाय बाणैरपरैर्ज्वलद्भिः 012a
आजघ्निवांस्तान्रजतप्रकाशांश्चतुर्भिरश्वांश्चतुरः प्रसह्य 012c
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः 013a
सुदर्शनस्येषुगणैः सुतीक्ष्णैर्हयान्निहत्याशु ननाद नादम् 013c
अथास्य सूतस्य शिरो निकृत्य भल्लेन वज्राशनिसन्निभेन 014a
सुदर्शनस्यापि शिनिप्रवीरः क्षुरेण चिच्छेद शिरः प्रसह्य 014c
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् 015a
यथा पुरा वज्रधरः प्रसह्य बलस्य सङ्ख्येऽतिबलस्य राजन् 015c
निहत्य तं पार्थिवपुत्रपौत्रं रणे यदूनामृषभस्तरस्वी 016a
मुदा समेतः परया महात्मा रराज राजन्सुरराजकल्पः 016c
ततो ययावर्जुनमेव येन निवार्य सैन्यं तव मार्गणौघैः 017a
सदश्वयुक्तेन रथेन निर्याल्लोकान्विसिस्मापयिषुर्नृवीरः 017c
तत्तस्य विस्मापयनीयमग्र्यमपूजयन्योधवराः समेताः 018a
यद्वर्तमानानिषुगोचरेऽरीन्ददाह बाणैर्हुतभुग्यथैव 018c