सञ्जय उवाच 001
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः 001a
भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् 001c
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत् 002a
पश्यतां सर्वसैन्यानां बलिवासवयोरिव 002c
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः 003a
त्रिभिराशीविषाकारैर्ललाटे समविध्यत 003c
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः 004a
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः 004c
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् 005a
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे 005c
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् 006a
द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् 006c
तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते 007a
प्रहस्य सहसाविध्यद्विंशत्या शिनिपुङ्गवम् 007c
पुनः पञ्चाशतेषूणां शतेन च समार्पयत् 008a
लघुतां युयुधानस्य लाघवेन विशेषयन् 008c
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः 009a
तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः 009c
तथैव युयुधानेन सृष्टाः शतसहस्रशः 010a
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः 010c
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष 011a
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ 011c
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः 012a
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः 012c
सारथिं च शतेनैव भारद्वाजस्य पश्यतः 012e
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः 013a
सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः 013c
ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् 013e
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा 014a
धनुश्चिच्छेद समरे माधवस्य महात्मनः 014c
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः 015a
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् 015c
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् 016a
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः 016c
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः 017a
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः 017c
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत 018a
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः 018c
तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् 019a
तरसा प्रेषयामास माधवस्य रथं प्रति 019c
अनासाद्य तु शैनेयं सा शक्तिः कालसन्निभा 020a
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना 020c
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा 021a
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ 021c
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः 022a
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् 022c
मुमोह सरथिस्तस्य रथशक्त्या समाहतः 023a
स रथोपस्थमासाद्य मुहूर्तं सन्न्यषीदत 023c
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् 024a
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् 024c
ततः शरशतेनैव युयुधानो महारथः 025a
अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते 025c
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत 026a
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 026c
निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् 027a
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति 027c
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि 028a
अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः 028c
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः 029a
चकार राजतो राजन्भ्राजमान इवांशुमान् 029c
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत 030a
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः 030c
ते सात्यकिमपास्याशु राजन्युधि महारथाः 031a
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् 031c
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् 032a
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् 032c
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः 033a
वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः 033c
पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान् 034a
शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे 034c
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव 035a
तस्थौ क्रोधाग्निसन्दीप्तः कालसूर्य इवोदितः 035c