सञ्जय उवाच 001
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः 001a
त्वरमाणा महाराज युयुधानमयोधयन् 001c
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः 002a
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः 002c
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः 003a
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा 003c
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः 004a
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष 004c
दुर्योधनश्च महता शरवर्षेण माधवम् 005a
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः 005c
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः 006a
तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः 006c
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा 007a
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः 007c
दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् 008a
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः 008c
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः 009a
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् 009c
राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् 010a
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः 010c
विमुञ्चन्तौ शरांस्तीक्ष्णान्सन्दधानौ च सायकान् 011a
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ 011c
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत 012a
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा 012c
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव 013a
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 013c
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः 014a
धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव 014c
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् 014e
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा 015a
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् 015c
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् 016a
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह 016c
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना 017a
अमर्षवशमापन्नस्तव पुत्रमपीडयत् 017c
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः 018a
सात्वतं शरवर्षेण छादयामासुरञ्जसा 018c
स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः 019a
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 019c
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः 020a
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् 020c
नागं मणिमयं चैव शरैर्ध्वजमपातयत् 021a
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 021c
सारथिं पातयामास क्षुरप्रेण महायशाः 021e
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् 022a
अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः 022c
स वध्यमानः समरे शैनेयस्य शरोत्तमैः 023a
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव 023c
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः 023e
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे 024a
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा 024c
तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः 025a
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः 025c
विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः 026a
भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः 026c
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् 027a
युयुधानो महाराज यन्तारमिदमब्रवीत् 027c
कृतवर्मा रथेनैष द्रुतमापतते शरी 028a
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् 028c
ततः प्रजविताश्वेन विधिवत्कल्पितेन च 029a
आससाद रणे भोजं प्रतिमानं धनुष्मताम् 029c
ततः परमसङ्क्रुद्धौ ज्वलन्ताविव पावकौ 030a
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ 030c
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् 031a
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः 031c
चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः 032a
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह 032c
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् 033a
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् 033c
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे 034a
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् 034c
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः 035a
समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः 035c
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः 036a
विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः 036c
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः 037a
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् 037c
सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः 038a
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् 038c
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः 038e
सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः 039a
प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे 039c
स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः 040a
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः 040c
सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् 041a
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः 041c
खड्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् 042a
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः 042c
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः 043a
अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् 043c
समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः 044a
तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् 044c