सञ्जय उवाच 001
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि 001a
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना 001c
लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः 002a
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् 002c
श्रुत्वा तु निनदं भीमं तावकानां महाहवे 003a
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् 003c
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः 004a
अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुध्यत सात्यकिः 004c
ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे 005a
प्रेषयामास समरे शरांश्च चतुरोऽपरान् 005c
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः 006a
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः 006c
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः 007a
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः 007c
साभज्यताथ पृतना शैनेयशरपीडिता 008a
ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः 008c
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् 009a
अतीत्य स महाराज द्रोणानीकमहार्णवम् 009c
पराजित्य च संहृष्टः कृतवर्माणमाहवे 010a
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् 010c
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम् 011a
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः 011c
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः 012a
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् 012c
एते हि बहवः सूत दुर्निवार्याश्च संयुगे 013a
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः 013c
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः 013e
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः 014a
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः 014c
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे 015a
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः 015c
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः 016a
रथेनादित्यवर्णेन भास्वरेण पताकिना 016c
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः 017a
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः 017c
आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः 018a
परिवव्रुस्ततः शूरा गजानीकेन सर्वतः 018c
किरन्तो विविधांस्तीक्ष्णान्सायकाल्ँलघुवेधिनः 018e
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् 019a
पर्वतानिव वर्षेण तपान्ते जलदो महान् 019c
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः 020a
प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः 020c
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः 021a
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः 021c
सम्भिन्नवर्मघण्टाश्च सन्निकृत्तमहाध्वजाः 022a
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः 022c
रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः 023a
नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः 023c
तस्मिन्द्रुते गजानीके जलसन्धो महारथः 024a
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति 024c
रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः 025a
कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः 025c
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् 026a
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् 026c
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि 027a
अशोभत महाराज सविद्युदिव तोयदः 027c
तमापतन्तं सहसा मागधस्य गजोत्तमम् 028a
सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् 028c
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः 029a
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः 029c
ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः 030a
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि 030c
ततोऽपरेण भल्लेन पीतेन निशितेन च 031a
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् 031c
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत 032a
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः 032c
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् 033a
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् 033c
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली 034a
धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह 034c
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि 035a
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव 035c
क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः 036a
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः 036c
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् 037a
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष 037c
स निर्भिद्य भुजं सव्यं माधवस्य महारणे 038a
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः 038c
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः 039a
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् 039c
प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः 040a
आर्षभं चर्म च महच्छतचन्द्रमलङ्कृतम् 040c
तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह 040e
शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् 041a
अलातचक्रवच्चैव व्यरोचत महीं गतः 041c
अथान्यद्धनुरादाय सर्वकायावदारणम् 042a
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् 042c
विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह 042e
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः 043a
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव 043c
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् 044a
वसुन्धराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ 044c
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् 045a
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः 045c
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् 046a
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत 046c
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः 047a
नैषादिं पातयामास गजस्कन्धाद्विशां पते 047c
रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः 048a
विलम्बमानमवहत्संश्लिष्टं परमासनम् 048c
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् 049a
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः 049c
हाहाकारो महानासीत्तव सैन्यस्य मारिष 050a
जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण ह 050c
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः 051a
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये 051c
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः 052a
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् 052c
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः 053a
द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् 053c
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च 054a
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् 054c